SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ Såntinátka Jain Bhandāra Cambay 345 खर्जूर ! प्रभव प्रपंचर्य रसं सत्काव्य ! येनाधुना न श्रोत्राणि पवित्रयन्ति कृतिनामस्मद्गुरूणां गिरः ॥ १३ ॥ तत्पट्टपूर्णकलशाः श्रीवैरस्वामिसूरयो गुरवः । विकिरन्तु दुरितनिकरं वितरन्तु समीहिता सिद्धिम् ॥ १४ ॥ ज्योतिःशास्त्रमहर्निशं गणयता नैमित्तिकान् पृच्छता चर्चा शाकुनिकैः समं कलयतां क्लेशो भवेत् केवलः । पूज्याना यदि नाममंत्रकलनामैत्रीपवित्रीकृता नो मिथ्या शृणुताऽऽप्नुवन्ति परमा ते कार्यसिद्धिं जनाः ॥ १५ ॥ षतर्कीललनाविलासवसतिश्चचत्तपोऽहर्पति- . स्तत्पट्टोदयचन्द्रमाः समजनि श्रीनेमिचन्द्रप्रभुः । निःसामान्यगुणैर्मुवि प्रसृमरैः प्रालेयशैलोज्ज्वलै र्यश्चक्रे कणभोजिनो मुनिपतेwथै मतं सर्वतः ॥ १६ ॥ यस्य श्रोत्रसुधाकिरः शुचिगिरः श्रीभारती शृण्वती कामं कपयति स्म विस्मयरसाकीर्णाऽपि न स्वं शिरः। मंदारप्रभृतिप्रभूतकुसुमस्रग्दामलीनालिना यद्वाणीश्रवणान्तरायजननः कोलाहलः खेलति ॥ १७ ॥ यत्र प्रातिभशालिनामपि नृणा संचारमातन्वता ___ संदेहै. प्रतिभाकिरीटपटली सेद्यः समुत्सार्यते । नीरंधं विषमप्रमेयविटपित्रातावकीर्णे सदा तस्मिंस्तर्कपथे यथेष्टगमना जज्ञे यदीया मंतिः ॥ १८ ॥ शिष्यस्तस्य प्रशस्यः समजनि जगदानन्दकंदाम्बुदश्रीः सूरि. श्रीसागरेन्दुवचनरसभरैर्यस्य सिक्तां जनौघः । रोमोद्भेदाकुराढ्या शिरसिं युतकरांभोजपत्रा प्रमोदा ___ दस्राभोविंदुपुष्पा सुकृतफलवती कोयवल्ली बिभर्ति ॥ १९ ॥ निर्व्याज घनदानयोग्यजडतावस्त्वन्विंता मन्मति यत्पादप्रभवप्रसादविलसत्पद्याक्षरैः स्वीकृतैः ।
SR No.010183
Book TitleCatalogue of Palmleaf Manuscripts in Santinatha Jain Bhandara 02
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherUniversity Publication Baroda
Publication Year1966
Total Pages310
LanguageHindi
ClassificationCatalogue
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy