________________
344
Catalogue of Palm-Leaf Mss in the
दिगम्बरसमाक्रान्तावेकपट्टं समाददे । यः प्रत्यक्ष नरेन्द्रस्य जगतस्तद्यशः पुनः ॥ ५ ॥ तर्कग्रन्थविचारदुर्गमवनीसंचारपंचानन
स्तत्पट्टेऽभयदेवसूरिरजनि श्वेतांवरग्रामणीः । सद्वाक्यश्रुतिलालसा मधुकरी कोलाहलाशंकिनी
हित्वा विष्टरपंकजं श्रितवती ब्राह्मी यदीयाननम् ॥ ६ ॥ दृग्निम्नगाः सत्पथभेदमेता ध्रुवं करिष्यन्ति जडैः समेताः । इतीव रोधाय चकार तासां ग्रन्थं नवं वादमहार्णवं यः ॥ ७ ॥ विद्वन्मंडलमौलिमंडनमाणि. खत्तपोऽहमणि
निग्रंथोऽपि जिनेश्वरः समजनि श्रीमास्ततः सद्गुरुः । य स्फूर्जद्गुणपुंजमुंजजगतीजिष्णोः पुरः प्रज्ञिलान्
वादे वादिवरान् विजित्य विजयश्रीसंग्रहं संव्यधात् ॥ ८ ॥ तत्पट्टपूर्वपर्वतमण्डनमार्तण्डमण्डलश्रीकः । श्रीअजितसेनसूरिभूरितमस्तोमहृज्जात. ॥ ९॥ तर्कग्रन्थपथप्रथापृथुमतिः क्षमापीठवाचस्पतिः ___सूरिभूरिनयस्तत' समजनि श्रीवर्द्धमानाह्वयः । आस्थाने विदुषा यदीयवचनैरुत्कंटके वादिभि
लेगेनापि मियेव नाम न पदोल्लापप्रयासः कृतः ॥ १० ॥ श्रीसिद्धान्तव्यवहृतिपटुस्तत्पदाम्भोजभंग.
सूरिः श्रीमानजनि जगतीमंडनं शीलभद्रः । अंगोद्धत्या सकलसुमन.साक्षिकं दीयमाना
____ऽप्यन्तव्याजं यदमलवचःसंपदाप प्रवृद्धिम् ॥ ११ ॥ अतुच्छराजगच्छश्रीसमुल्लासनलालसः । सूरि कृपाबुधिरभूत्तत्पदे भरतेश्वरः ॥ १२ ॥ द्राक्षे ! ख्यापय शक्तिमात्मविभवं पीयूष ! पोषं नय
प्रख्याता भव सर्करे । तव मधो ! माधुर्यमस्तु स्फुटम् ।