SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ 348 Catalogue of Palm-Leaf Mss. in the महाव्रतानीव सुताः स्युस्ताभ्यां पंच विश्रुताः। - गुप्तित्रयमिवानिय पुत्रीत्रयं च जज्ञिरे ॥ ४ ॥ तेषा च ज्येष्ठः किल पूर्णचन्द्रो धर्मानुरक्तो यशश्चन्द्रनामा । औचित्यचर्याचतुरस्त्वाभडो नाहडजाल्हणश्च तथा परे ॥ ५ ॥ शीलमती च सहजू रत्नी च श्रावकव्रतम् । श्रीयशोभद्रसूरीणा चरणांते प्रपेदिरे ॥ ६ ॥ केल्हणाल्हणरत्नाश्च राजपालश्चतुर्थकः । पूर्णस्यागण्यपुण्यस्य तनयाः सुनया. अमी ॥ ७ ॥ केल्हणाल्हणरत्नानां सुताः संति यथाक्रमम् । अजयोऽथारिसिंहश्च गुरुदेवार्चने रतो ॥ ८ ॥ सुगणः सुवर्णशाली विम्राणो नैव गुरुगणाक्रमणम् । सुकवे. श्लोक इव स्तनधयस्तिहुणपालोऽभूत् ॥ ९ । यशश्चन्द्राज्जगद्देवोऽभूत्ततोऽपि वरदेवः ।। आभडः श्रीमानतुंगचरणाभोजषट्पदः ॥ १० ॥ आभडस्य सुता रतेऽभयश्रीकुक्षिसंभवा । पांडवा इव विख्याताश्चित्रं कौरवसंगता. ॥ ११ ॥ प्रथम. पद्मसिंहाख्यो वीरचंद्रो द्वितीयक. । आसलो मूलदेवश्च देदलश्वाथ पंचमः ॥ १२ ॥ . चतुरश्चतुरो विभ्रत् पुरुषार्थान् नयानिव। . बभूव नाहडस्तुर्यो नाउका तस्य गेहिनी ॥ १३ ॥ मुक्तिमार्गा इव श्लाघ्या जज्ञिरे नंदनास्तयोः । त्रयोऽपि विशदाचाराः पितुराज्ञाविधायिनः ॥ १४ ॥ आद्यस्तेषां तु शोभाख्यः पुत्रत्रयविराजितः । । - —आसडनामा- स्तत्रकीदृशः ।। १५ ।। स्फटिकनिर्मले यस्य मानसे सद्गुणावुजे । राजहंसा इवाजलं वसंति परमेष्ठिनः ॥ १६ ॥
SR No.010183
Book TitleCatalogue of Palmleaf Manuscripts in Santinatha Jain Bhandara 02
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherUniversity Publication Baroda
Publication Year1966
Total Pages310
LanguageHindi
ClassificationCatalogue
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy