SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ 334 Catalogue of Palsi-Leaf Mss 11 the शास्त्रेषु प्रचितो मनीषिभुवनात् पद्माकरेणैधितः काव्यं श्रीमुनिदेवसरिररत श्रीशांतिवृत्तं नवम् ।। १० ॥ द्विद्विव्येकसमासु १३२२ मासि सहसिश्वेतद्वितीया बुधे द्वेधाऽप्यत्र यदाश्रयं श्रितवता काव्यं मयेदं कृतम् । श्रीप्रद्युम्नमुनीश्वरः स विशदं सद्यः प्रसद्य व्यधाद् ज्ञैरन्यैरपि शोधनीयमसमं धृत्वा ममत्वं मयि ॥ ११ ॥ ग्रं० ४१६ एवं ग्रं० ४८५५ ॥ छ । प्रत्यक्षरं च संख्यानात् पंचपंचाशताऽधिका । अस्मिन्ननुष्टुभामष्टचत्वारिंशच्छती ध्रुवम् ॥ छ ।। मंगलमस्तु ॥ छ । सं० १३३८ वर्षे आषाढ शुदि १५ शनौ ॥ छ । ॐ ॥ नमः सर्वज्ञाय ।। स श्रीशांतिः श्रिये वोऽस्तु योऽपूर्वो मृगलांछन । अविनाशिरुचिच्छायः सदोद्योतः प्रकाशकः ॥ १ ॥ सश्रीकं जिनमावहन् लवणिमालीलागृहं रत्नसू राज्ञ. पूर्णकलामवाप्य मुदितस्तन्वन्नदीना स्थितिम् । शश्वद्गोत्रप्रतिष्ठारुचिरसनिलयः साधुवृत्त. समग्रः ___ सत्त्वाधारः समुद्रोपम इह जयति प्राग्वाटनामाऽन्वयः ॥ २ ॥ तदन्वयेऽभूद्धनदानुकारी सन्मार्गशाखीव परोपकारी । धनेश्वरो धर्मधुरीणदेहस्तस्यागजोऽभूद्धनदाकनामा ॥ ३ ॥ काशहदे वरनगरे धनदाकेनादिनाथजिनभवने। मूलप्रतिमाऽभिनवाऽस्थाप्यत शुद्धेन चित्तेन ॥ ४ ॥ श्रेष्ठिनो धनदाकस्य ब्रह्मदेवः सुतः शुभः । वाग्भटश्च सुता चैका लक्ष्मणिः शीलशालिनी ॥ ५ ॥ पुत्रो गोगाकनामाऽभूद्धाहडस्य गुणश्रियः । गां(? गो)गाकसमलापत्नी तयोः पुत्रत्रयं क्रमात् ॥ ६ ॥ ऊथिग-धांधु-आकडमुख्या साल्हू तथा दुहिता । सौभाग्य-श्रीदेवी द्वाभ्या पत्न्यौ सुभाकारे ॥ ७ ॥
SR No.010183
Book TitleCatalogue of Palmleaf Manuscripts in Santinatha Jain Bhandara 02
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherUniversity Publication Baroda
Publication Year1966
Total Pages310
LanguageHindi
ClassificationCatalogue
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy