________________
333
Šantinātha Jain Bhandāra Cambay
यो वादीश्वरदेवसरिसुगुरोर्मूलक्रमे सूरिणा
चक्रे श्रीमदनेंदुना निजपदे तेनाग्रवृत्तश्रिता । काव्ये श्रीमुनिदेवसूरिकविना श्रीशांतिवृत्ते कृते
श्रीप्रद्युम्नमुनींदुधीरुचिशुचिः सर्गोऽगमत् सप्तमः ॥ ३॥ छ । निर्वृतिप्राप्ति म ॥ छ॥ प्रभाधिनाथैर्मुनिभिः कलाभृन्मुख्यरुपेतो गुरुतारकौघै. । अनंतलीलाकलितः किलाऽऽस्ते गच्छो वृहद्गच्छ इति प्रतीतः ॥ १ ॥ तत्र चित्रचरितः परितापं हर्तुमब्द इव भव्यजनानाम् । सस्यवृद्धिकरसंवरवानप्युज्ज्वलोऽजनि गुरुर्मुनिचंद्रः ॥ २ ॥ दु.षमाजलधौ येन मग्ना सुविहितस्थिति. । हेलयैव समुद्दधे धरित्री वादिपोत्रिणा ॥ ३ ॥ श्रीजैनशासनसरोजविकागभानुः श्रीदेवसरिरिति तस्य बभूव शिष्यः । दुर्वादिकौशिकचयप्रतिभादृशांध्यं यो वाग्मरीचिनिचयै रचयाचकार ॥ ४ ॥ येषा दूरीकृतया कीर्त्यावलयाऽपि कुमुदचंद्रस्य । विदधे विजयस्तज्जयमहिमा को नाम तेषां स्यात् ।। ५ ।। तद्भद्रासनविंध्यभूभृति यश श्रीपूर्वगंगाभृति
__ श्रीभद्रेश्वरसूरयः समभवन् भद्रेभशोभाभृतः । यैः प्रज्ञाप्रसरेण शास्त्रगहनं संशोध्य दुःसंचरं
शिष्याणा मतयः करेणव इव प्रौढप्रचाराः कृताः ॥ ६ ॥ तत्पदेऽभयदेवस्य प्रभो कल्पद्रुकल्पताम् । कथैव कथयत्येषा प्ररूढा रत्नमंजरी ॥ ७ ॥ सूरिर्मदनचंद्राख्यो मुख्यो मार्दवशालिनाम् । तत्पट्टमुकुटो रेजे शिष्यरत्नैः समुन्ज्वलैः ॥ ८ ॥ मत्वा छिन्ने येन नाम्नी स्वकीये लब्ध्वा सद्यौ पुष्पचापद्विजेशौ । नेशौ मन्ये मुख्यकर्तुं विरुद्धाऽन्येकोऽनंग कृश्यदंगः परोऽभूत् ॥ ९ ॥ तत्पर्टेकविशेषको गणमृत. प्रद्युम्नत. कोविद
स्तद्वंघोर्जयसिंहसूरिसुगुरोयोगादिनिर्णीतधीः ।