________________
335
Šāntinātha Jain Bhandara Cambay
भार्याऽभूब्रह्मदेवस्य मंदोदरी शुभाशया। तयोः पुत्राश्चतुस्संख्याः धर्मकर्मणि कर्मठाः ॥ ८ ॥ आल्हाकः सकलः कलंकरहितः स्वच्छाशयो धर्मधीः
__ माल्हाको महिमानिधानमतुलो वाक्येन सन्नंदकः । राल्हाको गुरुपादपद्मभसलः सर्वज्ञपूजारतः
साल्हाकः सवलः सलीलगमनः सत्यव्रतालंकृतः ॥ ९ ॥ राल्हाककुमरदेव्योः पुत्रत्रितयं तु ब्रह्मणागाद्यः। काल्हूक रत्नसिंहौ ब्रह्मी-सोहगसुते द्वे च ॥ १० ॥ आल्हाकोऽर्जितवित्तादाभरणं श्रीयुगादिदेवस्य । आरात्रिकं च मंगलदीपयुतं कारयामास ॥ ११ ॥ आल्हाकरत्नदेव्यो रत्नत्रयधारकास्त्रय पुत्राः ।। समधरगुणधरयशधरमुख्याश्चाहणि सुता चैका ॥ १२ ॥ समधरभार्याकर्मणिपुत्राः सप्त क्रमेण कोलाकः । आसा-ऽऽसपालसेढा-पूना-हरिचंद्र-चयराख्याः ॥ १३ ॥ गुणधरभार्या स्वच्छा शीलतपोदानभावधर्मरता । राजमतिरंगजातास्तयोर्जनानंदका. सस्या. ॥ १४ ॥ पार्श्वभटो वीराका आंबा-लींबाक-सोमदेवाश्च । शीलू-हीरलदुहिते जिनधर्मसदोद्यतेऽत्यंतम् ॥ १५ ॥ पासडभार्यासाजिणिपुत्रौ द्वौ विजयसिंह नयणाको । वीरापत्नीराजश्रीसूनुत्रयं तु जगपालः ॥ १६ ॥ हरपाल-देवपालौ आंबाभार्या च ललतुका श्रेष्ठा । नरपालसुतश्चैको लीवाकस्याऽ-णपमाख्या ॥ १७ ॥ विजयश्री-यशधरयोनरसिंहसूनुरतिथिजनभक्तः । पाती दुहिता चैका कुटुंबमेतच्च सुविशालम् ॥ १८ ॥ श्रीभुवनरत्नपूज्या. पारीद्रा वादिकुंजरे । एकातरा निवृतिका गच्छाधाराः शुभाचाराः ॥ १९ ।।