SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ Santinatha Jain Bhandara Cambay 327 तस्य मानसनिवासिनी प्रिया पद्मिनी खुदिवसोद्गमस्मिता । श्रीगृहाहिनन कराहिनीरजा जातरूपरुचिरा व्यराजत ॥ ४४ ॥ तस्य सूनुरजनिष्ट शांतडः शांतलक्ष्मशशलक्ष्मसन्निभैः । यस्य निस्तमसि मानसे गुणैः शर्मधर्मनृपतिर्लसन् ललौ ॥ ४५ ॥ कलिकालकरालवल्गितै. गतसंज्ञं सुकृतामृतोर्भिभिः । सहजी समजीवयत्तमा दयिता तस्य पतिव्रताव्रतम् ॥ ४६ ॥ आसलः कलयति स्म कौशलं कासु कासु न कलासु तत्सुतः । केवलं स्वगुणभापणार्थिनां रक्षणे परविभाषणेऽल्पधीः ॥ ४७ ॥ तस्याहिदेविरतिदेहघरेव गेहलक्ष्मीः प्रिया कलविलक्षणलक्षणाऽऽसीत् । यस्या वराहूिनखरत्नधरो मनोव्धि. केनापि नैव कलितो विमलात्मवृत्तिः ॥४८॥ श्रीपद्म इत्यभिधया धिया निधि. पुत्रस्तयोर्जयति मंत्रिवृत्रहा । श्रीः प्राप्य तीर्थमिव यं सरस्वतीपूतं स्वपापचपलत्वमत्यजत् ॥ ४९ ॥ कश्चिद्गौरगुणोऽस्ति यः स कलितोन्मादं विवादं मया दत्तामित्यखिलेषु यस्य यशसा विश्वेषु विस्फूर्जितम् । क्वाप्येतत् प्रतिमल्लतां कलयते कोपीनकोपीत्यदात् ब्रह्मेढुं जयपत्रमस्य पुरतः संलक्ष्य लक्ष्माक्षरम् ॥ ५० ॥ सत्पात्रप्रसराश्रयः शुचिगणप्राग्भारगौराशयः सद्वृत्तौ द्विजराजहंससुखकृद्दोपाकरे न्यग्मुखः । श्रीमद्विश्वलदेवविश्वविभुना प्रोद्वास्य तेजोभरे. श्रीपद्मस्तपनेन पद्मवदयं सद्मश्रियो निर्ममे ॥ ५१ ॥ श्रीमद्विश्वलमेदिनीश्वरकृतप्रौढप्रसादादसौ व्यापारानधिगम्य कानपि कदाऽप्युत्सेकदावाबुदः । श्रीपद्मो नृपतिप्रजार्थयुगलीं कृत्वाऽर्थशास्त्रार्थतः स्वार्थं सारपरोपकारकरणव्यापारमेवाकरोत् ॥ ५३ ॥ श्रीपद्मः समभूषयज्जिनविभुं हृनंदनैश्चंदने कर्पूरैः कुसुमोत्करै सुरभिभिः शुभ्रैर्यशोभिर्जगत् । 1
SR No.010183
Book TitleCatalogue of Palmleaf Manuscripts in Santinatha Jain Bhandara 02
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherUniversity Publication Baroda
Publication Year1966
Total Pages310
LanguageHindi
ClassificationCatalogue
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy