________________
328
Catalogue of Palm-Leaf Mss. in the
तस्यागे दुरितोच्चयैः सह समुच्चिक्षेप कृष्णागुरुं
तं स्तौति स्म नवस्तवैरतुलवंसोऽपि त्रिलोक्या स्तुतः ॥ ५४ ॥ साधर्मिकोद्धरणसुश्रमणादिसंघप्रोत्सर्पणाप्रवचनप्रवणानुरागैः । चैत्यार्पितैश्चमरकांचनकुंडलायै. श्रीजैनशासनसमुन्नतिमेप तेने ॥ ५५ ॥ तस्य पुष्यति सतीत्वसंपदं चंपलेति सहधर्मचारिणी । सेवते सुकृततत्पराऽपरा पद्मलाऽपि गुलसद्मतद्मनः ॥ ५६॥ चित्ताहादं प्रह्लादनदेव्यप्यस्य प्रियाऽकरोत् । धर्मरूपः सदा यस्या स एवाऽऽसीन्मनोतरा ॥ ५७ ॥ पुत्रोऽस्य विक्रमादित्यः पद्मलाकुक्षिसंभवः । कलाभिश्च प्रभाभिश्च सुधाशुरिव वर्द्धताम् ।। ५८ ॥ सौभाग्यदेवी कुलभाग्यदेवी श्रीपद्ममंत्रिद्युपतेः स्वसाऽस्ति । गंगेव या निर्मलशीललीला जडस्वभावं न बिभर्ति किंतु ॥ ५९ ॥ श्रीपद्ममंत्रीश्वरभागिनेयो मोषाकसूनुर्महणाहयोऽस्ति । तारुण्यचारुण्यपि यस्य देहे वृद्धत्वशुद्धा विधयो वसति ॥ ६०॥ मल्लदेवो हस्तिमल्लः प्रतिमल्लः लसद्यशाः। निजान्वयवनीसिंहो देवसिंहो महोद्यमः ॥ ६१ ॥ पूर्णेन्दुद्युतिलुटाककीर्तिरूदाक इत्यपि । सहोदराः क्रमादेते त्रयो महणमंत्रिणः ॥ श्रीमत्तीर्थकृतां चरित्रततयश्चित्राश्चतुर्विशतेः
स्वल्पामिस्तिथिभिः यथा श्रुतिपथे पांथत्वमातन्वते । ग्रंथः कोऽपि तथा भवेद्यदि ततः श्राद्धाः श्रयंत्येव तं
शृण्वन्तः सुकृतानि पद्मसचिवेंद्रस्येति चेतस्यभूत् ॥ ६२ ॥ श्रीमद्वायटगच्छवारिजरवे पादारविंदद्वये
येन श्रीजिनदत्तसूरिसुगुरोः शृंगार/गायितम् । स श्वेतांवरमौलिरत्नममरः अपिद्ममंत्रीप्सितं
पद्मानंदमिदं मुदाऽकृत महाकाव्यं महानंदकृत् ॥ ६३ ।।