SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ ____326 326 Catalogue of Palm-Leaf Mss. in the इति विरचितशिक्षः स क्षमी ध्यानशुद्धि त्रुटितविकटकर्मा निर्मलीभूतचित्तः । अमृगयत नटतीरष्टसिद्धीः कदाचि दिशि विदिशि कदाचिद्गीःश्रियौ युक्तपाणी ॥ ३४ ॥ नेत्रे निमीलयति चेद्भववृद्धिहेतुर्भूलोकदर्शनभिया स पतिर्यतीनाम् । तद्भरिभावभरभासुरभूतिमालामालोकते त्रिजगतीमपि किं करोतु ॥ ३५ ॥ इति सुकृतनिधानध्याननिर्धारितायुः भुवमिव दिवमात्माध्यासपूतां स चक्रे । जनमनसि स जीवन्नेव रेजे तु तत्तन्मतिविफलिततादृग्दुष्टयोगिप्रयोगः ॥३६॥ अमीभिस्त्रिभिरेव श्रीजिनदत्तादिनामभिः । सूरयो भूयोऽभूवंस्तत्प्रभावास्तदन्वये ।। ३७ ॥ एकः प्रौढविवेकविभ्रमलतापुप्पेषु पुप्पेषुजित् तेषु श्रीजिनदत्तसूरिरुदयद्भरिप्रभावोऽभवत् । तादृग्विस्तृतहृन्निपीतनमसो यस्योचितं दिद्युते धीराभोधरसिंधुसिंधुरजयी व्याख्यासु शब्दो गुणः ॥ ३८ ॥ श्रीविवेकविलासाद्यैर्यत्प्रर्वधैः सहस्रशः । हतमोहतमोऽकारि करिव रवेर्जगत् ॥ ३९ ॥ आयुष्यं कथयति जंतुषु पयःसार. पयोधेः पुनः __पीयूपं पृथिवीजुषामनिमिषीमावाय सभाव्यते । विद्मः श्रीजिनदत्तसूरिवचनं सारः सुधानामपि व्यक्तं मुक्तिमपि प्रयच्छति सतां यत्पीतमुत्प्रीतिकृत् ॥ ४० ॥ श्रीजीवदेवसूरीणां त एव परमाणव जग्मुर्यदंगता भेजे तद्गुणैस्तद्धियेव सः ।। ४१ ॥ इतश्चश्रीवायट प्रवणवंशमणिर्महस्वी श्रीवासुपूज्य इति मंत्रिवरो विरेजे। येनाऽणहिल्लपुरपौरपरंपराणा चूडामणित्वमुररीक्रियते स्म शश्वत् ।। ४२ ॥ रामदेव इति तत्सुतोऽभवद्यद्यशःप्रसरदुग्धवारिधौ । । लक्ष्मलक्षदरसोमशुक्तिना मौक्तिकालय इवोडुपंक्तयः ॥ ४३ ॥
SR No.010183
Book TitleCatalogue of Palmleaf Manuscripts in Santinatha Jain Bhandara 02
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherUniversity Publication Baroda
Publication Year1966
Total Pages310
LanguageHindi
ClassificationCatalogue
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy