________________
Sāntinātha 7a1n Bhandara Cambay
325
पदपदमदगायगायनस्तोमनृत्य
न्नटपटलकजल्पद्वंदिवृंदाद्भुतेन । मुदितजनमुदश्रुस्निग्धसांद्रेण सूरिः
स्वमठमथ पथाऽगाज्जग्मुरन्येऽप्यथौकः ॥ २५ ॥ यतींदोस्तस्याथोल्लसदसमशक्तेः परपुर
प्रवेशावेशद्धिः परमतममुत्कर्षमगमत् । अमुक्तस्वांगोऽपि स्वसनसुभगस्यापि यदसा
वनेकस्योऽप्येकः समसमयमेवांतरविशत् ॥ २६ ॥ यन्मार्गाग्रतृणालिरिक्षुलतिका यद्वालुकामंडलं
खंडो यत्तटगर्तनीरममृतं यत्कर्करा शर्करा । यत्फेनप्रचयः सुधारुचिरयं यत्संरवोऽनाहत
ध्वानस्ताः शतशोऽस्फुरन् क नयते तस्य प्रवंधापगाः ॥ २७ ॥ तेनाकारि पुरारिपर्वतशिरोधिकारिधात्रीतला
लंकारि स्फुटपापहारि भुवने वृंदं जिनद्रौकसाम् । आरोपोन्नमितेन यस्य नियतं दंडोच्चयेनोच्चकैः
विद्धं व्योम दधाति किं न परितछिद्राण्युडुच्छद्मना ॥ २८ ॥ गांभीर्ये च गुरुत्वे च माधुर्ये च ध्वनौ च कः ।
पर्यन्ताव्वेर्जलाधार इव तस्यैतु तुल्यताम् ॥ २९ ॥ श्राद्धान् श्रद्धाभाजनमुदितसभाजनविराजिनो विप्रान् ।
पौरांश्च भक्तिगौरान् कदाचिदाचष्ट स मुनीन्द्रः ॥ ३० ॥ ग्रहीतुमतुलाग्रहः परपुरप्रवेशव्यसो. कपालमपपालनाद्वपुष एकखंडं मम । सयोगिपुरुषोऽकृत प्रमृतगोप्रयोगं मया स्वरक्षणविचक्षणान्वघटि चेटकानाघटाः ॥३१॥ भुवनविजयविद्या शुद्धकर्मण्यवद्याममुमदसुविनाशैः साधयिष्यन् स योगी। चिरविरचितयत्नो मत्कपालग्रहार्थ विहरति परितो मन्मृत्युकालप्रतीक्षः ॥ ३२ ॥ व्यसोर्नगरनिर्गमे डमरकध्वनियॊमनि स्फुटः स्फुरति तद्यदा मम शिरोऽस्थि चूर्ण्य तदा। इतीद्धमतिलीलया समुदमुद्बहन् मुचिता चिराय परिपूरयत्यगुरुचंदनौधैः पुरा ॥ ३३ ॥