SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ 324 Catalogue of Palm-Leaf Mss. in the स प्रस्फुरज्ज्वरभरोऽथ विहाय साध्वीं नांगुलिर्गलितगर्वगुणो जगाम ॥ १८ ॥ अयमुदयदमंदव्यक्तशक्तिर्व्यनक्ति क्वचन वचनसंगी नास्य सादृश्यसंगीः । सततमिति यतींदोस्तस्य नर्नर्त्ति कीर्त्ति - र्जगति जगति गंगार्ष्णस्तरंगागहारैः ॥ १९ ॥ पूर्वोर्वीधरगधसिंधुरशिरःसिंदूरपूरप्रभां विभ्रातरौ कदाचन कृतप्राभातिकप्रक्रियः । सूरिर्भूरिभिरेत्य तत्पुरचरैः सम्मान्य मान्यः सता प्रीतिश्रीरसभावितैर्निजसभावर्त्ती बभाषे द्विजैः ॥ २० ॥ गौरेका पतिता कथंचन मृता श्रीब्रह्मशालांतरे न म्लेच्छाः प्रविशंति तत्र न मृतं कर्षन्ति विप्राः पशुम् । धर्माधारकृपाधुरीण ! तरसा तस्मादहो कस्मलादस्मानन्यपुरप्रवेशकल्यैवोत्कर्षतः कर्ष तत् ॥ २१ ॥ मंत्राकृष्टविशिष्टचेटकवयत्रातांगयष्टियति स्वामी सोऽन्यपुरप्रवेशनमथ ध्यानं दधौ शुद्धधीः । सा गौरुच्छ्छुसिता ततो जिनमतस्यापि प्रभावप्रभा सा श्रीब्रह्मगृहाद्बहिर्निरगमद्दुःखं द्विजानां हृदः ॥ २२ ॥ स्वस्थानस्थापितात्मा तदनु मुनिरसावुत्सवेन द्विजेन्द्रे रानिन्ये ब्रह्मशालामथ च पृथुमदैर्वायटादित्यदैवम् | - हैमं यज्ञोपवीतं तदिह सह महास्थानवंटेन दत्त्वा " · जैनोऽपि ब्रह्ममुख्यस्त्वमसि शमनिधेऽस्माकमेवं जगे च ॥ २३ ॥ जलद इव तडित्वान् मेरुशृंगाप्तसेतु र्जलधिरिव करीवावद्धकल्याणकक्षः i ध्वनिभरभृतदिक्को लब्धनिष्कोपवीत स्तदनु मुनिरकार्षीद्धर्मकमोपदेशम् ॥ २४ ॥
SR No.010183
Book TitleCatalogue of Palmleaf Manuscripts in Santinatha Jain Bhandara 02
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherUniversity Publication Baroda
Publication Year1966
Total Pages310
LanguageHindi
ClassificationCatalogue
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy