________________
Šāntinātha Jain Bhandara Cambay
अक्षुभ्यंस्तत्प्रभावादपि सुकृतसुधासिंधुधाराधरोऽयं
दूरं सूरिः पुपूरे सर इव वरवाग्वृष्टिभिः संसदं सः ॥ १० ॥
अथ सुकृतकथाते गंतुमिच्छन् रसज्ञा
न स परिकरसंघात् क्रष्टुमीष्टे स्म योगी । पण इव तदस्मिन्नुल्लसद्दीनशब्दे
किमिदमिति जनेनापृष्टमाचष्ट सूरिः ॥ ११ ॥ शक्तेः पातयितुं नभस्तलफलं हुंकारतोऽर्कं क्षमो
मूलस्तंभमपि त्रिलोकभवने भक्तुं भुजंगेश्वरम् । योगीन्द्रोऽद्भुतभूरिसिद्धिरसिकोऽसौ मत्कपालाप्तये
प्राप्त' स्तंभनमाचरन् मयि मया द्राक् प्रत्युत स्तंभितः ॥ १२ ॥ वक्त्राग्रलंबितलसद्रसनावबद्धपर्यस्तिकोऽत्र मदमर्षदवानलेन । कुंजार्धनिसृतमहोरगवेष्टितागः शाखीव शुप्यतुतरामयमित्थमेव ॥ १३ ॥ जिनेश्वरमतामृतार्णववितंद्रचंद्रोदय प्रमोदय दयां हृदि क्रुधममुं च मुंच प्रभो ! सदः सदि बदत्यदस्तदनु साधुवर्गे गुरुं क्षितौ खटिकयाऽक्षराण्यलिखदेष योगी तदा ॥ १४ ॥ उपकृतिमुपकर्तुः सर्वतः कुर्वते ये कति धरति न धात्री तानसौ मानसौडान् । अपकृतिकृति यस्तामेव कुर्वीत गुर्वीं वहति सततमुर्वीमुद्विवेकः स एकः ॥ १५ ॥ आमृश्यैवं स यतिपतिना कृष्णभोगीव योगी
वंधान् मुक्तः क्रुधमधिवहन् निःश्वसन् निस्ससार । यातो यस्या दिशि रिपुरसौ गम्यता नाद्य तस्यामस्मद्वग्र्यैरिति च वचनं स्पष्टमाचष्ट सूरिः || १६ || रतिरिव पतिनाशे श्रीरिवास्थैर्यदोपे
स्ववशगकविदौस्थ्ये वागिवापत्रतं या ।
नगरबहिरगच्छद् गच्छसाध्वी न्यवेशि
स्वतनुमनु च तेन द्रोहिणा मोहिता सा ॥ १७ ॥
मत्वेत्यथ कुशम तमयं मुनीश.
323
कृत्वा ततान वितते तपनस्य तापे ।