SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ व्याससम्मत-ब्रह्मसूत्रभाष्यनिर्णयः अवगम्यते । ततः स एव बादरायणो, यथा महाभारते आदिपर्वणि प्रथम अध्याये "क्षेत्र विचित्रवीर्यस्य कृष्णद्वैपायनः पुरा। ९४ बीनग्नीनिव कौरव्यान् जनयामास वीर्यवान् ॥ ९५ पुन. श्रीमदभागवते नवम-स्कन्धे द्वाविंशे अध्याये "क्षेत्रेऽप्रजस्य वै भ्रातुर्मात्रोक्तो बादरायण । धृतराष्ट्र च पाण्डु च विदुरच्चाप्यजीजनत् ॥ २५ यस्या पराशरात् साक्षादवतीर्णो हरे केला ॥२१॥ वेदगुप्तो मुनि कृष्णो यतोऽहमिदमध्यगाम् । हित्वा स्वशिष्यान् पैलादीन् भगवान् बादरायणः ॥२२॥ मय पुत्राय शान्ताय पर गुह्यमिदं जगौ।।" इति। ___एतेन पाराशर्थ एव कृष्णद्वैपायनः, स एव चादरायणो व्यासः इति च विज्ञापितः । ततश्च कृष्णद्वैपायन एवं प्रामसूत्रकारो व्यास इति स्कन्दपुराणाद् अवगम्यते । तद् यथा "तैर्विज्ञापितकार्यस्तु भगवान् पुरुषोत्तमः । अवतीर्णो महायोगी सत्यवत्या पराशरात् ।। उत्सन्नान् भगवान् वेदानुजाहार हरि. स्वयम् । चकार ब्रह्मसूत्राणि येषा सूतत्वमञ्जसा ।। अल्पाक्षरमसन्दिग्धं सारवद् विश्वतो मुखम् । अस्तोममनपधं च सूत्र सूलविदो विदुः ॥" (माध्वभाध्यधृत-स्कन्दपुराणवचनम् ।) कृष्णद्वैपायनस्य ब्रह्मसूलकतत्वे वायुपुराणवचनमपि (१०४।१०८) प्रमाणं, यथा "अस्मत्सम्मत एवार्थो भवता सम्प्रदर्शितः । पुराणेवितिहासेषु सूत्रेष्वपि च नैकधा । अक्षरं ब्रह्म परम सर्वकारण-कारणम् ॥” इति । मत्स्यपुराणेऽपि (५३ अ.) "अगानि चतुरो वेदान् पुराण न्यायविस्तरम् । मीमांसा धर्मशास्त्रं च परिगृह्य मया कृतम् ॥” इति । एतेन कृष्णद्वैपायनो व्यास एवं ब्रह्मसूत्रकारः इत्येव प्रमाणित भवति । ब्रह्मसूत्र पादरायण-नाम्ना सिद्धान्त-निर्देशात् तस्यैव अन्यकतत्वं प्रतीयते । तेन चादरायण एवं कृष्ण[द्वैपायनो व्यास इत्येव सिध्यति । “बादरायण"-शब्दो ब्रह्मसूत्रमध्ये १।३।२६, १।३।३३, ३।२।४१, ३।४।१, ३।४।८, ३।४।१९, ४।३।१५, ४१४७, ४।४।१२, सख्यक सूलेपु सिद्धान्तज्ञापनाय प्रयुक्तो दृश्यते । एवं बहूनि प्रमाणानि सन्ति, यत' कृष्णद्वैपायन एवं वादरायण, स एव ब्रह्मसूलकार ---इत्येव सिध्यति । अयं पाश्चात्यपण्डितवर्ग उभाविता, तनुवर्तिभि अरमद्देशीय बहुभिश्च परिगृहीता, एतेन तु सा निरस्ता । पुराणानाम् अर्वाचीनत्वशानिरास અથ વેત્ પુરાણાતિપુ આધુનિતિહાસિદ્ધિ - નાન, તપામ્ અર્વાચીનત્વ શ્વેત, तथापि तेपा प्राचीन-कथा-सग्राहक-रूपत्व न बाधित भवति । बहुपु पुराणादिषु यत ऐकमत्यं, तल न अप्रामाणिकत्व-शका समुचिता । केपाश्चित् पुराणादीनाम् अशेन आधुनिकत्वेऽपि तवस्था प्राचीनकया प्रमाण येन ग्रहीतुं शक्यते । अात आधुनिक माल न समग्रस्य अप्रामाण्यप्रयोजकम् । कथाया अविच्छिन्नमूलत्वमेव तरया प्रमाणाहत्वम् । कतिपयपुराणादीनाम् आधुनिकत्वाभ्युपगमेऽपि
SR No.010175
Book TitleBramhasutra Bhashya Nirnaya
Original Sutra AuthorN/A
AuthorRamkrishna Sevamrut Prakashan Kashi
PublisherRamkrishnua Sevamrut Prakashan Kashi
Publication Year1835
Total Pages555
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy