SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ व्याससम्मत-ब्रह्मसूत्रभाष्यनिर्णयः ( ३यः पादः ) अष्टमं विपर्ययाधिकरणम् । र्थ्यय" अत्र “विपर्य्ययेण तु क्रमोऽत उपपद्यते च २|३|१४ ( २३० ) इति सूत्रस्य “विपय" शब्दात् अस्य “विपर्य्ययाधिकरण" नाम । अत्र रामानुज-निम्बार्क-श्रीकण्ठमाध्यमिन्नेषु सर्वत्र एतद् एकमेव सूत्र गृहीतम् । तत्र रामानुजमतेन तदीय- द्वितीयाधिकरणस्य अष्टाना सूत्राणा मध्ये एतत् हि षष्ठ सूत्रम् । निम्बार्कमतेन तु तदीय- प्रथमाधिकरणस्य पञ्चदशाना सूत्राणा मध्ये एतत् हि चतुर्दशसूत्रम् । श्रीकण्ठमतेन तदीय-पञ्चमाधिकरणस्य मूत्रद्वयमध्ये एतत् तु प्रथमं सूत्रम् । अत एतेन सूत्रेण अधिकरणस्य अनारम्भात् रामानुज - निम्बार्कमाप्यद्वय दोपग्रस्तम् । अत्र “क्रम.” इति प्रथमान्तपदात् चतुर्थसामान्यनियमात् अधिकरणारम्भ. संगत एव । तत्रापि “तु च” इति पदद्वयात् नवमविशेषनियमात् तथा ५४ विशेषनियमात् द्वादशविशेषनियमाच अत्र अधिकरणारम्भे वाधा न शङ्कनीया । तु-शब्दस्य पूर्वपक्षीय शङ्कावारणर्थत्वात् नवमविशेषनियमात् चकारस्य हेतोरेव समुच्चयार्थत्वात् द्वादशविशेषनियमात् । अत्र अष्टादशविशेषनियमोऽपि द्रष्टव्य । परसूत्रे अधिकसम्मत्या अधिकरणारम्भात् अत्रैव अधिकरणसमाप्तिश्च संगतैव इति सिद्ध्यति । नवम् अन्तराविज्ञानाधिकरणम् । अत्र “अन्तरा विज्ञानमनसी क्रमेण तलिगादिति चेन्नाविशेषात् " २।३।१५ ( २३१ ) इति सूत्रस्य “अन्तारा”शब्दात्, तथा "विज्ञान" शब्दात् अस्य " अन्तराविज्ञानाधिकरण” नाम । तत्र शकर-भास्कर-श्रीपति-भाष्येषु एतेन एकेन सूत्रेण एतदधिकरणं रचितम् । मध्व-वल्लभ-भाष्यद्वयमध्ये सूत्रद्वयेन । रामानुज-निम्बार्क-श्रीकण्ठमाप्येषु अधिकरण न रचितम् । अत्र रामानुजमतेन तदीयद्वितीयाधिकरणस्य अष्टाना सूत्राणा मध्ये एतद् सप्तम सूत्रम् । निम्बार्कमतेन तदीय- प्रथमाधिकरणस्य पञ्चदशाना सूत्राणा मध्ये एतद् हि अन्तिम सूत्रम् । श्रीकण्ठमतेन तदीय-पञ्चमाधिकरणस्य सूत्रद्वयमध्ये अन्तिमं सूत्रम् । तेन अधिकसम्मत्या अनेन अधिकरणस्य आरम्भात अत्र अधिकरणस्य अरचनाया रा-नि- श्री भाष्याणां दोष । अत्र “विज्ञानमनसी " इति प्रथमान्तपदसत्त्वात् अनेन अधिकरणारम्भ समुचित एव, चतुर्थसामान्यनियमात् । तथापि सूत्रमध्ये " इति चेन्न” इति वाक्याशात् नात्र अधिकरणम् आरम्भनीयम्, पञ्चमविशेषनियमात् । परन्तु अधिकरणरचनायाम् अष्टाना भाष्याणा मध्ये पञ्चाना ऐक्यमत्यात् अरचनाया तु त्रयाणाम् असम्मतेश्च केनचिद् विशेषनियमेनैव अधिकरणरचनमेव समर्थनीयम् । स च चतुर्दशविशेषनियम प्रागेव कृत । यथा “प्रथमान्तपदात् पर यदि पञ्चम्यन्नपदसत्त्वं, तत पर यदि ' इति चेन्न” इति पद, तदा अधिकरणारम्भ समुचित एवं " इति । एवं चेत् अत्र “विज्ञानमनसी" इति प्रथमान्तपदात् पर " तल्लिंगातू" इति पञ्चम्यन्तपदसत्त्वात् अस्य अधिकरणारम्भकत्वं युज्यते एव । न च “इतरपरामर्शात् स इति चेन्न असम्भवात्" १|३|१८ इति सूत्रे “इतरपगमर्शात्” इति पञ्चम्यन्तपदात "स" इति प्रथमान्तपदसत्वेऽपि
SR No.010175
Book TitleBramhasutra Bhashya Nirnaya
Original Sutra AuthorN/A
AuthorRamkrishna Sevamrut Prakashan Kashi
PublisherRamkrishnua Sevamrut Prakashan Kashi
Publication Year1835
Total Pages555
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy