________________
अणुभाष्यम् ।
सूत्राङ्काः
पृष्ठाङ्काः। ३ नन्वेवं सति शाखान्तरीयधर्माणामुपसंहारः स्यात्तथावान्तर- २०९ धर्मा अवतारान्तरेप्युपसंहर्तव्याः स्युरिति चेन्न वेदसंबन्धिकर्मणस्तत्तच्छाखोक्तप्रकारेण करणेधिकारात् । यथा सवाख्यहोमा आथर्वणिकैरेव कार्या इति नियम्यन्ते । एवमेवोपासनायामपि रामकृष्णादिरूपेषु तत्तद्रूपोपासकस्य तत्त
धर्मा एव भावनीया नावतारान्तरधर्माः । ४ वेद्यैकत्वेन विद्यानामेकत्वं श्रुतिदर्शयति । तथा उपासना- २१४
प्रकारभेदेनोपास्यभेददर्शने दोषं च दर्शयति । ५ नमस्ते रघुवर्यायेत्यादिषु यः श्रीकृष्णधर्माणामुपसंहार उक्तः २१४
स शुद्धब्रह्मोपासकैः कर्तव्यः । भगवद्रूपस्यार्थस्यार्थद्वयेपि समानत्वात् । यथा विधिशेषाणामग्निहोत्रत्वादिलक्षणे धर्मे समानेपि स्वशाखोक्तप्रकारस्यैव करणं नान्यशाखोक्तधर्मोपसंहार एवमिहापि तत्तदवतारोपासकस्य तत्तदसाधारणधर्म
त्वेनैवोपासनं नान्यावतारधर्मवत्त्वेनापि । ६ ननु धर्माणामुपसंहारे श्रुतिप्रतिपादितमेकरसं ब्रह्मान्यथा २१५
भवेत्ततश्च तदनेकरसं प्रसज्ज्यतेति चेन्न श्रुतिप्रतिपादितत्वाविशेषात् । यथा श्रुत्या ब्रह्मण एकरसत्वेन निर्णयः कृतस्तथा विरुद्धधर्मवत्त्वेनापि। ७ प्रकारान्तरेण समाधानम् । यथा परोवरीयस्त्वव्रतस्य दीक्षा- २१५
प्रकरणे पठितत्वात् दीक्षासहितस्यैव परोवरीयस्त्वं न तद्रहितस्य प्रकरणभेदात् । तथा ज्ञानप्रकरणे ज्ञानिनं प्रति एकरसत्वेन निरूपणं भक्तिप्रकरणे तु भक्तानुभवानुरोधादिन्नभिन्नप्रकारेण निरूपणम् । ८ यथोद्गीथोपासनेतिसं क्येपि परोवरीयस्त्वायुपासनेषु धर्म- २१६
भेदस्तथात्र संजैक्यपि धर्मभेदः ।