________________
अथ तृतीयाध्यायस्य प्रथमः पादः ॥
१ तदन्तरपतिपत्तावित्यधिकरणम् । तदन्तरप्रतिपत्तौ रंहति संपरिष्वक्तः
प्रश्ननिरूपणाभ्याम् ॥३।१।१ ॥ सर्वोपनिषदां सिद्धो ह्यविरोधे समन्वयः । कथं बोधकता तासां सा तृतीये विचार्यते ॥ ३३ ॥ एकं वाक्यं प्रकरणं शाखाः सर्वाः सहैव वा। एका विद्यामनेकां वा जनयन्तीति चिन्त्यते ॥ ३४ ॥ ससाधने हि पुरुषे जन्मना कर्मणा शुचौ । केवले वा यथायोगे प्रथमं तद्विचार्यते ॥ ३५॥ विचारपूर्वकं तस्य ब्रह्मभावाप्तियोग्यता । अधिकारे ततः सिद्धा विषयावधृतिस्ततः ।। ३६ ॥ अन्तरङ्गविचारेण गुणानामुपसंहतिः ।
बहिरङ्गविचारेण कर्मणामिति सा द्विधा ॥ ३७॥ १५ तस्मादधिकारिणो जन्मनिर्धारः । तदनु तस्य ब्रह्मभावयोग्यता । ततो गुणोपसंहारः । ततोङ्गविचार इति ।
___ तत्र प्रथमे पादे जीवस्य ब्रह्मज्ञानौपयिकं जन्म विचार्यते । तत्र पूर्वजन्मनि निष्काम यज्ञकर्तुनिरहितस्य मरणे ज्ञानाभावेन यज्ञाभिव्यक्त्यभावाद् भूतसंस्कारक एव यज्ञो जात इति निष्कामत्वाच्च तदधि२० कारिदेवाधीनान्येव भूतानीति ते देवास्तत्र तत्र हुत्वा तस्य शरीरं संपा
दयन्तीति पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति ( छां० ५।३।३ ) इति श्रुतिः।
तत्र जीवेन्द्रियाणां होमाभावेनाशुद्धिमाशङ्क्य तेषामपि होम वक्तमिदमधिकरणमारभते । नच पञ्चाहुतयो धूममार्ग एव । तत्र गम
-
--
--
, अस्थाधिकरणस्य नामास्मत्संगृहीताधिकरणमालायां नोपलभ्यते ।