________________
१०
ך
२५
१ न वियदित्यधिकरणम् । [ अ.२पा. ३ सू.१
न च कर्तुः करणम् || २|२|४३ ॥ कर्तुः संकर्षणसंज्ञकाज्जीवात्प्रद्युम्नसंज्ञकं मन उत्पद्यत इति तल्लोके न सिद्धम् । न हि कुलालाद्दण्ड उत्पद्यत इति । चकारादग्रिमस्य निराकरणम् || २२|४३ ॥
१३९
विज्ञानादिभावे वा तदप्रतिषेधः ॥ २।२।४४ ॥
अथ सर्वे परमेश्वरा विज्ञानादिमन्त इति तथा सति तदप्रति६ ईश्वराणामप्रतिषेधः । अनेकेश्वरत्वं च न युक्तमित्यर्थः । वस्तुतस्तु स्वातन्त्र्यमेव दोषः || २२ |४४ ॥
विप्रतिषेधाच्च ॥ २।२।४५ ॥
बहुकल्पनया वेदनिन्दया च विप्रतिषेधः । चकारादप्रक्रियाविरोधः || २२|४५ ॥ ८ ॥
इति श्रीवेदव्यासमतवर्तिश्रीवल्लभाचार्यविरचिते ब्रह्मसूत्राणभाष्ये द्वितीयाध्यायस्य द्वितीयः पादः ॥ २२२ ॥
द्वितीयाध्याये तृतीयः पादः ॥ १ न वियदित्यधिकरणम् । न वियदश्रुतेः || २|३|१ ||
श्रुतिवाक्येषु परस्परविरोधः परिन्हियते विप्रतिषेधपरिहाराय । मीमांसायास्तदर्थं प्रवृत्तत्वात् । शक्तयविरोधाभ्याम् । तथा च बह्मवादे जडजीवयोर्विरुद्धांशनिराकरणाय तृतीयपादारम्भः ।
. द्विविधा हि वेदान्ते सृष्टि: । भूतभौतिक सर्वं ब्रह्मण एवं विस्फ लिङ्गन्यायेनैका । अपरा वियदादिक्रमेण । सा चानामरूपात्मना नामरूपत्ववत्त्वेनाभिव्यक्तिः । सजडस्यैव कार्यत्वात्तस्य जीवस्य त्वंशत्वेनैव न नामरूपसंबन्धः ।
अनित्ये जननं नित्ये परिच्छिन्ने समागमः ।
• नित्यापरिच्छिन्नतनौ प्राकटयं चेति सा त्रिधा ।। २८ ।।