________________
म. १ पा. सू. २६]
अणुभाष्यम् ।
इति कर्तृत्वप्रतीतेराकाशादिवाक्यमप्यौपचारिक भविष्यतीति तन्निराकरणायाह । आत्मकृतः । तदात्मान५ स्वयमकुरुत ( ते. २१७ ) इति स्वस्येव कर्मकर्तृभावात् । सुकृतत्ववचनाचालोकिकत्वम् । तथापि ज्ञानार्थमुपपत्तिमाह । परिणामात् । परिणमंत कार्याकारणेति । अविकृतमेव परिणमते ५ सुवर्णम् । सर्वाणि च तैजसानि । वृत्तवालांकिकलाई ब्रह्मकारणत्व एव घटते। पूर्वावस्थान्यथाभावस्तु कार्यश्रुत्यनुरोधादङ्गीकर्तव्यः । वक्ष्यति च-श्रुतेस्तु शब्दमूलत्वात् । ( ब्र. सू. २।११२७ ) इति । अन्यानि च युक्तिदूषणानि परिहरिष्यति । तस्माद् ब्रह्मपरिणामलक्षणं कार्यमिति जगत्समवायिकारणत्वं ब्रह्मण एवति सिद्वम् ॥ १।४।२६ ॥
योनिश्च हि गीयते ॥ १।४।२७ ॥ चेतनेषु किंचिदाशङ्कय परिहरति । नन्वस्तु नहानां ब्रह्मैककारणत्वम् । चेतनषु तु यानिबीजयाः समवायित्वदर्शनात्पुरुषवाद भगवतो योनिरूपा प्रकृतिः समवायिकारणं भवतु । शुक्रशोणितसमवेतत्वाच्छरी
रस्येत्याशङ्कय परिहरति । योनिश्च ब्रह्मैव । शाक्तवादनिराकरणाय १५ चकारः । तत्र युक्तिश्रुती प्रमाणयति । हि गीयत इति । यक्तिस्तावत्
सदेव सौम्येदमग्र आसीदकमेवाद्वितीयम् ( छां. ६।२।१ ) इति पूर्वमेकमेव प्रतिज्ञातम् । आकाशादेव आनन्दायवेत्यायेवकार श्वानन्यकारणत्वं जगतोवगम्यते । इतरापेक्षायां द्वतापत्तेः । गीयते च । कर्तारमीशं पुरुषं
ब्रह्मयोनिम् । (मुं. ३।१।२ ) यद्भतयोनि परिपश्यन्ति धीराः (मुं. २० १।१६ ) इति च । मम योनिमहब्रह्म तस्मिन्गर्भं दधाम्यहम् ( भ. गी.
१४॥३) इति । तासां ब्रह्म महद्योनिरहं बीजप्रदः पिता (भ.गी. १४:४) इति च । अक्षरपुरुषोत्तमभावन तथात्वम् । तस्मायोनिरपि भगवान्पुरुपोपि सर्वं वीर्यं जीवश्च सर्व भगवानिति । इदं सर्वं यदयमात्मेति सिद्धम् ।
तस्मात्केनाप्यंशेन प्रकृतिप्रवेशो नास्तीत्यशब्दत्वं सांख्यमतस्य २५ सिद्धम् ॥१।४।२७ ॥
3-C reads भविकास for सकतत्व