________________
प्रतिसूत्रं श्रीमदणुभाष्यतात्पर्यम् ।
m-00000.ONam
प्रथमाध्यायस्य प्रथमपादः ११॥ सूत्राङ्काः
पृष्ठाङ्काः। १ जिज्ञासाधिकरणम् । १ षडङ्गैरेव वेदार्थनिश्चयस्य संभवादत्यन्तनिश्चयस्य तपः- १
भृतिभिरेव संभवात्तदर्थं किं वेदान्तविचारेणेत्याशय ऋषिभिर्नानाशास्त्राणां कृतत्वात्तच्छ्रवणेन बुद्धिदोषान्मन्दानां संदेहसंभवे तन्निर्धारणा) विचारशास्त्रं कर्तव्यम् । तत्र यद्यपि सर्वे वेदा यत्पदमामनन्तीति वेदैश्च सर्वैरहमेव वेद्य इत्यादिश्रुतिस्मृतिभिर्ब्रह्मैव सर्ववेदार्थस्तथापीदं वाक्यं वेदान्ते श्रुतं तं त्वौपनिषदं पुरुषं पृच्छामीति पुरुषरूपता च तत्रैव श्रुता वेदान्तविज्ञानसुनिश्चितार्थी इति वाक्येन वेदान्तानामर्थनिश्चायकत्वं च तत्रैव श्रुतमत इदानीं तपःप्रभृतीनामसंभवाद्वेदान्तविचारेणैव वेदार्थरूपब्रह्मस्वरूपनिश्चय इत्यभिसंधाय ब्रह्मसंबन्धिविचारः प्रस्तुतः ॥
२ जन्माघधिकरणम् । २ ब्रह्म किंलक्षणकं किंप्रमाणं चेत्याकाङ्गायां जगदुत्पत्ति- ८ स्थितिकारणं ब्रह्मेति सूत्रांशेन लक्षितम् । ततोंशान्तरेण वेदरूपशास्त्रप्रमाणकं ब्रह्मेत्युक्तं तेन कर्तृरूपं निमित्ततया सिध्यति ॥
३ समन्वयाधिकरणम् । ३ ब्रह्म जगतः कर्तृ निमित्तं चेति चेत्किं जगतः समवायी- १३ त्याशङ्कायामनारोपितानागन्तुकरूपेण समनुगमाद्ब्रह्मैव जगतः समवायीति निर्णीतम् ॥