________________
सपिण्डीकरणश्राद्धप्रयोगः।
७७ ॐइदं विष्णुर्विचक्रमे त्रेधा निदधे पदम् । समूढमस्य पामरे ( य०सं०५।१५) इदमन्नमिमा आपः इदमाज्यमिदं शाकादिकं सर्व हव्यम् ।
ततो वामेन पत्रावलिं स्पृशन दक्षिणेन कुशयवजलान्यादाय अद्येहामुकगोत्रप्रेतपित्रादित्रयश्राद्धसम्बन्धिभ्यः (प्रेताश्वश्चादित्रयश्राद्धसंबधिभ्यः ) कालकामसंज्ञकेभ्यो विश्वेभ्यो देवेभ्य: सपिण्डीकरणश्राद्धे इदमन्नं सोदकं सोपस्करं यत्परिविष्टं यत्परिवेक्ष्यमाणं ब्राह्मणतृप्तिपर्याप्तं दास्यमानमन्नं च यथाविभागं व: स्वाहा इत्युक्त्वा(१)भूमौ वामभागे जलं विसृजेत् । ॐअमृतोपस्तरणमसि स्वाहेति सकृदपो दद्यात् । (२)ततो यवकुशमादाय "ॐये देवासो दिव्येकादश स्थ पृथिव्यामध्येकादश स्थ । अप्सु क्षितौ महिनैकादश स्थ ते देवासो यज्ञमिमं जुषध्वम्" (य०सं०७।१६) इति पठित्वा 'इदं नमो देवेभ्य' इति यवकुशमुत्सृजेत् । यथासुखेन जुषध्वम् इति प्रार्थयेत् । जुषामह इति प्रतिवचनम् |
तत: प्रेतमण्डलं गत्वा प्रेतब्राह्मगपत्रावल्यामन्नं परिविष्य अपसव्येन तिलान् विकीर्य हस्ते कुशतिलजलान्यादाय अद्येहामुकगोत्रायामुकप्रेताय (गोत्रायै प्रेतायै ) सपिण्डीकरणश्राद्धे इमन्नं सोदकं सोपस्करं यत्परिविष्टं तत्ते उपतिष्ठतामिति जलादिकं दक्षिणभागे भूमावुत्सृजेत् ।। (१) श्राद्धीयान्नस्य संकल्पो भूमावेव प्रदीयते ।
हस्तेषु दीयमानं तु पितणां नोपतिष्ठते ॥ वैश्वदेवस्य वामे तु पितृपात्रस्य दक्षिणे ।
सङ्कल्पोदकदानं स्यात् नित्यश्राद्धे यथारुचि ॥ इति धर्मप्रदीपोक्तेः।
अपोशानं प्रदायाथ सावीत्री त्रिर्जपेदथ । मधुव्वाता इति तृचं मध्वित्येतत् त्रिकं तथा ॥ सङ्कल्प्य पितृदेवेभ्यः सावित्रीमधुमजपः ।
श्राद्धं निवेद्याऽपोशानं जुषप्रैषोऽथ भोजनम् ॥ इत्यादिकं निर्णयसिन्धौ। (२) "ये देवास' इमं देवे, पित्र्ये “येचेह" वै पठेत् ।
मन्त्रान्ते तु ततो ब्र यादमृतं भुज्यतामिति ॥ इति मिताक्षराटीकायां कात्यायनोक्तेः (५२२)।