________________
७३
सपिण्डीकरणश्राद्धप्रयोगः । अमुकशर्मन् वसुस्वरूप (अमुकगोत्रे प्रेताश्वश्रु अमुकदेवि वसुस्वरूपे) सपिण्डीकरणश्राद्धे एष हस्ताघस्तेऽस्त्विति विप्रपाणौ अयं दत्त्वा विप्रपाणिस्थं पवित्रं पुनरर्षपात्रे संस्थाप्य प्रेतपितामहापात्रस्थं पवित्रं पूर्ववत् द्विजपाणौ दत्त्वा 'या दिव्या' इति पठित्वा अद्येह अमुकगोत्र प्रेतपितामह अमुकशर्मन रूद्रस्वरूप ( अमुकगोत्रे प्रेतावृद्धश्वश्रु अमुकदेवि रुद्रस्वरूपे) सपिण्डीकरणश्राद्धे एष हस्ताघस्तेऽस्त्विति दत्त्वा पवित्रं पुनरर्घपात्रे संस्थाप्य प्रपितामहापात्रस्थं पवित्रं पूर्ववत् द्विजपाणौ दत्त्वा ‘या दिव्या' इति पठित्वा अमुकगोत्र प्रेतप्रपितामहामुकशर्मन्नादित्यस्वरूप (अमुकगोत्रे प्रेतावृद्धतरश्वश्रु अमुकदेवि आदित्यस्वरूपे ) सपिण्डीकरणश्राद्धे एष हस्ताघस्तेऽस्त्विति दत्त्वा पवित्रं पुनरर्घपात्रे संस्थापयेत्(१)।
ततः (२)प्रेतपित्रर्धपात्रे सर्वान् संस्रवान्समवनीय सव्येन___ अर्घोदकं श्रियं दद्यात्पुत्रपौत्रादिवर्धनम् ।
यस्मात्तस्माच्छिवं मे स्यादिह लोके परत्र च ॥ मम कुले दीर्घमायुरस्तु शान्तिरस्तु पुष्टिरस्तु वृद्धिरस्तु यच्छ्यस्तदस्तु । 'यत्पापं रोगः शोको दुःखं दारिद्रयं तद् दूरे प्रतिहतमस्तु' इति भूमौ जलं क्षिपेत् । अमृताभिषेकोऽस्त्विति शिरसि | इत्यभिषिच्य अपसव्येन पितृब्राह्मणवामभागे हस्तमात्रे दूरे "शुन्धन्तां लोकाः पितृषदनाः" इति ( य०सं०५।२६ ) भूमि जलेनाभ्युक्ष्य "पितृषदनमसि" इति ( य० सं० ५।२६) तदुपरि कुशस्तम्बं निधाय तत्र "पितृभ्यः
(१) केचित् द्विजहस्तभृतं पवित्रं पुनरघंपात्रे गृह्णन्ति । तदतीव मन्दम् । दत्तस्योपादाने प्रमागाभावात् इति गदाधरः । पित्र्यविप्रैः प्राङ्मुखस्य कर्तुरभिषेकस्यापि केषांचिन्मते निर्णयसिन्धौ दर्शनात् तत्र च संस्त्रवजलवत् पवित्रस्यापि साधनभावात् तदर्थ तदुपादाने न किंचिद्दूषणम् इत्यन्ये । (२) गदाधरभाष्ये पुराणे विशेषा इत्युपक्रम्य
आसिच्य प्रथमे पात्रे सर्वपात्रस्थसंस्रवान् । . . ताभिरभिमुखं सिञ्चेद्यदि पुत्रमभीप्सति ॥ इति ।
मत्स्यपुराणे
पितृपात्रे प्रदायार्घ न्युञ्जमुत्तरतो न्यसेत् । इति । . अनोत्तरत्वं वामत्वम् । तच्च भोक्त्रपेक्षं समाचारादिति गदाधरः।