________________
अन्त्यकर्मदीपके नैवाज्यं न च तत्तीरं पातव्यं केनचित् क्वचित् ।
न बाह्यःऽसौ वृषश्चैपामृते गोमूत्रगोमये ॥ इत्यनेन यथेष्टविनियोगनिषेधात् न गोमूत्रगोमयवर्ज तेषां किञ्चिदपि उपादेयम् । सङ्कल्पविरोधाच्च । “अनेन प्रियेण वनेषु क्रीडन्त्य: अनवच्छिनकालं चरत" इति हि उत्स्स्रष्टुः सङ्कल्पो न तु परेऽप्येतं गोबलीवर्दरूपं भुञ्जतामिति । उत्सृष्टकूपादौ तु 'सर्वभूतानि स्नानपानावगाहनादि यथेष्टमिह कुर्वन्तु' इति सङ्कल्पेन तत्र औपादानिकस्वत्वेन पानावगाहनादि सर्वं भवति इति बोध्यम् इति हरिहरभाध्ये विरतरः । वृषोत्सर्गश्च वृषवत्सतरीणां यथेष्टसञ्चारयोग्यस्थलं पर्यालोच्यैव कार्यः । योग्यस्थलासत्त्वे नगरपामादौ तत्कर्तृकोपद्रवे नागरिकादिभिस्तन्निग्रहे नानाविधदोषगणापातादिति सुधियो विचारयन्तु ।
इति वृषोत्सर्गविधिः ॥
अथैकादशाहश्राद्धविधिः । (१) तत्राद्यश्राद्धम् । तच्च महकोद्दिष्टात्मकं प्रथममासिकात्मकं च | (१) सद्यःशौचेऽपि दातव्यं प्रेतस्यैकादशेऽहनि ।
__ स एव दिवसस्तस्य श्राशय्याशनादिषु ॥ इति निर्णयसिन्ध्वादौ पैठीनसिवचनात् ,
त्र्यहाशौचेऽपि कर्तभ्यमाद्यमेकादशेऽहनि । इति तत्रैव उशनोवचनाच्च आद्यश्राद्धं सद्यःशौचे एकाहाशौचे च एकादशे एव । एतेन "आद्यमेकादशेऽहनिः' इत्याशौचानन्तरदिनपरम् । “अथाशौचापगमे” इति विष्णूक्तेः इति वदन्तः
आद्यं श्राद्धमशुद्धोऽपि कुर्यादेकादशेऽहनि ।
कर्तुस्तात्कालिकी शुद्धिरशुद्धः पुनरेव सः ॥ इति शङ्खवचनस्य
एकादशेऽहि यच्छ्राद्धं तत्सामान्यमुदाहृतम् ।
चतुर्णामपि वर्णानां सूतकं तु पृथक् पृथक् ॥ इति पैठीनसिवचनस्य च अनाकरत्वं च वदन्तः वाचस्पत्यादयः हेमाद्यादिमहानिबन्धविरोधात् उपेक्ष्याः। एकादशेऽहनि तथा विप्रानेकादशैव तु । क्षत्रादिः सूतकान्ते तु भोजयेदयुजो द्विजान् ॥