________________
एकादशाहकृत्यम् । इति मनुवचनात् विप्रस्य जलस्पर्शमात्रेण शुद्धिः । दशाहमध्ये दर्शपाते तु मातापितृवर्ज दर्शमध्य एव सर्वं दशाहिकं कृत्यं समापनीयम् ।
अथैकादशाहकृत्यम् । आदौ च दम्पती पूज्यौ शय्या देया तत: परम् । पश्चाच कपिला देया उदकुम्भास्तथैव च ॥ वृषोत्सर्गस्तत: कार्यः पश्चादेकादशाहिकम् । इति ।
दम्पतिपूजनमारभ्य वृषोत्सर्गान्तं कर्म ऋजुदर्भेण देवतीर्थेन प्राङ्मुख उदङ्मुखो वा सव्येन कुर्यात् । यदि मुमूर्षोः दशदानादिकं कर्म न जातं तदाऽस्मिन्नवसरे कुर्यात् प्रेतपदोल्लेखेन ।
तिलाधष्टमहादानमन्तकाले न चेत् कृतम् |
शय्यासमीपे धृत्वैतदानं तस्य प्रदापयेत् ।। इति गारुडात् । एकादशाहे प्रातरुत्थाय पुत्रादि: सूर्योदयोत्तरं सचैलं स्नात्वा शुद्धवस्त्रे धारयित्वा नूतनयज्ञोपवीतं धारयित्वा कृतसन्ध्योपासनो दीपं प्रज्वलय्याचम्य शुक्लाम्बरधरमिति विष्णुं प्रार्थ्य कर्मपात्रं संस्थाप्य हस्ते कुशादिकमादाय देशकालौ सङ्की,मुकगोत्रस्यामुकप्रेतस्य ( अमुकगोत्राया अमुकप्रेतायाः ) प्रेतत्वनिवृत्तिपूर्वकाक्ष्यस्वर्गप्राप्त्यर्थं करिष्यमाणस्य शय्यादानादेः प्रतिग्रहार्थं द्विजदम्पत्योः पूजनमहं करिष्ये । प्रत्यक्षद्विजदम्पत्यभावे स्वर्णप्रतिमायां कौशप्रतिकृतौ (१)वा कार्यम् । द्विजदम्पती 'एतं ते' इति प्रतिष्ठाप्य पाद्यार्थ्यगन्धपुष्पधूपदीपादिभिः द्विजदम्पतिभ्यां नम इति मन्त्रेण पूजयेत् । ततः कृतैतद्विजदम्पतिपूजाप्रतिष्ठासिद्धयर्थमिमां दक्षिणां युवाभ्यां सम्प्रददे इति सङ्कल्प्य द्विजदम्पत्योहस्ते जलमुत्सृजेत् । (१) निधायाथ दर्भचयमासनेषु समाहितः ।
प्रैषानुप्रैषसंयुक्त विधानं प्रतिपादयेत् ॥ इति श्राद्धतत्त्वे वचनात् ( १९४), . ब्राह्मणानामसंपत्तौ कृत्वा दर्भमयान् बरन् ।
इति वचनात् “कमण्डलु दर्भबटुं वा निधाय" इति तत्रैव गोभिलगृह्याच ब्राह्मणाभावे तद्विधानमुपपद्यते।
६० दी०