________________
अन्त्यकर्मदोपके ____ शुद्धायां भूमौ उपविश्याचम्य कर्मपात्रं संस्थाप्य अपसव्येन हस्ते जलादिकं गृहीत्वा अद्येहामुकगोत्रस्यामुकप्रेतस्य ( अमुकगोत्राया अमुकप्रेताया: ) भूर्लोकादिव्यलोकं गच्छतो ( गच्छन्त्या ) मार्गे संजातक्षुदादिनिवृत्त्यर्थं पाथेयश्राद्धं करिष्ये इति प्रतिज्ञाय आसनार्थे कुशान् दत्त्वा अमुकगोत्रामुकप्रेतेदमवनेजनं मदत्तं तवोपतिष्ठताम् । माषमिश्रं कृसरं गृहीत्वा अमुकगो० इदं पाथेयान्नं महत्तं तवो० | अमुकगो० इदं प्रत्ययनेजनं तवो० । अयं गन्धः । इमेऽक्षताः । इदं भृङ्गराजपत्रमिदमूपासूत्रम् इदं तिलोदकं महत्तं तवो० । अयं धूपस्तवो० । अयं दीपस्तवोपतिष्ठतामिति पूर्वदिवसस्थापितं दीपं विसृजेत् । “अनादिनिधनो देव" इति पठित्वा सर्व जले क्षिप्त्वा आचम्य क्रियाकर्ता सर्वैः सपिण्डैः सह(१)मुण्डनं कृत्वा स्नात्वा शुद्धे वाससी धारयित्वा पूर्वधृतवाससी(२)समाश्रितेभ्यो दत्त्वा सन्ध्यामुपास्य बालपुरस्सरं गृहमागत्य गृहद्वारि स्थित्वा निम्बपत्रं विदश्य गां मङ्गलद्रव्याणि · दधिदूर्वादीनि वाग्यतः स्पृष्ट्वा अलाभे मङ्गलद्रव्याणां कीर्तनं कृत्वा विशेषतो जलाग्निस्पर्शनं कृत्वा गृहं प्रविश्य बान्धवैः सह भुञ्जीत |
विप्रः शुद्धयत्यप: स्पृष्ट्वा क्षत्रियो वाहनायुधम् । वैश्यः प्रतोदं रश्मीन्वा शूद्रो यष्टिं कृतक्रियः ॥
(१) आशौचान्स्यदिने चौरं जनन्या च गुरौ मृते ।
इति व्यासस्मृतेः। दशमे दिवसे क्षौरं बान्धवानां समुण्डनम् । क्रियाकर्ता सुतश्चापि पुनर्मुण्डनमाचरेत् ॥ ___ इति गारुडोक्तेश्च । “अनुभाविनां च परिवापणम्” इत्यापस्तम्बोक्तेश्च । परिवापणमिति परित्यज्य शिखां वापनं परिवापणमित्यर्थः । अनुभाविनः प्रेतकनिष्ठा इत्येके । प्रेतदुःखानुभाविनः सर्वे एवेत्यन्ये । पुत्रः, पत्नी, पिण्डदानोचितोऽन्योऽपि इत्येते एवेत्यपरे । जननाशौचेऽपि मुण्डनमिति रत्नमालायाम् । अत्र सर्वत्र समाचाराद्वयवस्था। (२) समाप्य दशमं पिण्डं प्रेतस्पृष्टे तु वाससी।
अन्त्यानामाश्रितानां च त्यक्त्वा स्नानं करोति च ॥ श्मश्रुलोमनखानां च यत् त्याज्यं तज्जहात्यपि । गौरसर्षपकरकेन तिलकल्केन संयुतम् ॥ शिरःस्त्रानं ततः कृत्वा तोयेनाचम्य वाग्यतः। वृषभं गां सुवर्ण च स्पृष्ट्वा शुद्धो भवेनरः॥ __इति निर्णयसिन्धौ।