________________
३६
अन्त्यकर्मदोपके दाय अद्येह अमुकगोत्रामुकप्रेत ( अमुकगोत्रेऽमुकप्रेते ) इदम् अवनेजनं तवोपतिष्ठताम् इत्यवनेजनं दत्त्वा वासुदेवं स्मरन् पिण्डं गृहीत्वा वामं जानु निपात्य अमुकगोत्रामुकप्रेत ( अमुकगोत्रेऽमुकप्रेते ) रौरवनामनरकोत्तारणार्थं मूर्धावयवनिष्पत्त्यै एष पूरकपिण्डो(१) महत्तस्तवोपतिष्ठताम् | अमुकतोत्रामुकप्रेत ( अमुकगोत्रेऽमुकप्रेते ) इदं प्रत्यवनेजनं तवो० । एतत्ते शीतलोदकमुपतिष्ठताम् । अयं ते गन्ध उ० । एते अक्षतास्तवो० । इदं भृङ्गराजपत्रं तवो० । एष ते धूप उ० । अयं ते दीप उ० । इदमूर्णासूत्रं तवोप० । अयं ते मध्वन्नबलि:० । तिलकुशजलान्यादाय अमुकगोत्रामुकप्रेत ( अमुकगोत्रेऽमुकत्रेते ) पिण्डार्चनविधौ इमे गन्धाक्षतभृङ्गराजपत्रधूपदीपोर्णासूत्रमध्यन्नबलयो महत्तास्तवोपतिष्ठन्ताम् । ततस्तिलतोयपात्रं सम्पाद्य हस्ते गृहीत्वा अमुकगोत्रामुकप्रेत ( अमुकगोत्रेऽमुकप्रेते ) चितादाहजनिततापतृषोपशमाय प्रथमदिनसम्बन्धि एतत्तिलतोयपात्रम् महत्तं तवोप० । करसम्पुटं कृत्वा
अनादिनिधनो देवः शङ्खचक्रगदाधरः ।
अव्ययः पुण्डरीरकाक्ष प्रेतमोक्षप्रदो भव ॥ इत्युच्चार्य पिण्डादिकं सतिलोदकं सर्वं प्रेताप्याय नमस्तु इत्युक्त्वा सर्वं जले प्रक्षिपेत् । स्त्रियामपि प्रेतमोक्षप्रद इत्येव पठनीयमिति पूर्व निर्णीतम् (२०।२१)। (२)ततः
(१)दद्यात्तण्डुलपाकेन यवपिष्टेन वा सुतः । उशीरं चन्दनं भृङ्गराजपुष्पं निवेदयेत् ॥ धूपं दीपं च नैवेद्यं मुखवासं च दक्षिणाम् । काकान्नं पयसोः पात्रे वर्धमानजलाञ्जलीन् ।
प्रेतायामुकनाम्ने च महत्तमुपतिष्ठतु । इति गारुडे पिण्डदानविधानमुक्तम् ॥
काकानं बलिः । पयसोः पात्रे नीरक्षीरयोः पात्रे । अन्यच्च दन्तधावनकाष्ठम् । तत्र जलाञ्जल्यादयः आर्थक्रमात् पूर्वमनुष्ठेयाः।।
पारस्करगृह्ये तु "दिवाऽन्नमश्नीयुरमांसं पिण्डं दत्त्वाऽवनेजनदानप्रत्यवनेजनेषु नामग्राहम्" इत्येतावन्मात्रमुक्तम् ।
(२) मिताक्षराटीकायां बृहस्पतिः-"एकोद्दिष्टानां सर्वेषामवसानेऽवगाहनं
कुर्यात् , प्रेतसमुद्दिष्टं सपिण्डीकरणं विना' इति । गारुडेऽपि “अनादिनि० प्रदो भव" इति सम्प्रार्थनामन्त्रं श्राद्धान्ते प्रत्यहं पठेत् ।
इत्युक्त्वा-सात्वा गत्वा गृहं दत्त्वा गोग्रासं भोजनं चरेत-इति एकादशाध्यायान्से