________________
दाहोत्तरस्नानन्तरकृत्यम्
शोशुचदघमिति दक्षिणामुखा निमज्जन्ति प्रेतायोदकं सकृत्प्रसिञ्चन्त्यञ्जलिना "असावेतत्त उदकमिति" इति पारस्करवचनात् । )
असपिण्डानां प्रेतस्पर्शानुगमात्सचैल स्नानं कामोदकदानं च | सपिण्डैः प्रथमतृतीयपञ्चमसप्तम नवम दिनेषूदकदानं कार्यम् | पुत्रैस्तु प्रतिदिनमञ्जलिवृद्धया दशदिनावधि कार्यम् । दाहकर्ता जलादुत्तीर्य शुष्कवत्रं परिधाय आ सकृन्निष्पीड्य शोषणायोदग्देशं प्रसारयेत् । ततः शाद्वलभूमौ उपविष्टान् इतिहासादिभि: संसारस्यानित्यतां दर्शयन्तः सुहृदः शोकमपनुदेयुः । इतिहासवाक्यं स्मरन्तः पश्चादनवलोकयन्तो बालपुरस्सराः पुत्रादयो रात्रौ मरणे आदित्यदर्शनादूर्ध्वं ( १ ) ग्रामं प्रविशेयुः । दिवामरणे तु नक्षत्रदर्शनादूर्ध्वम् ।
३१
ग्रामं प्रविश्य गृहद्वारमागत्य स्थित्वा निम्बपत्राणि विदश्याचम्योदकं गोमयमग्निं गौरसर्षपान्तैलं च क्रमेण संस्पृश्य अश्मानमाक्रम्य गृहं प्रविशेयुः | “अनवेक्षमाणा ग्राममायान्ति रीतिभूताः कनिष्ठपूर्वाः निवेशनद्वारे पिचुमन्दपत्राणि विदश्याचम्योदकमग्निं गोमयं गौरसर्षपांस्तैलमालभ्याश्मानमाक्रम्य प्रविशन्ति" इति पारस्करवचनात् ।
'स्त्रीजनोऽग्रे गृहं गच्छेत् पृष्ठतो नरसञ्चयः । '
इति गारुडात् स्त्रियः पूर्वं गच्छेयुः ॥
दूर्वाङ्कुरं शिरस्याधायोपलिप्ते गृहे पृथक्पृथक् तृणशय्यामास्तीर्य पुत्रादय उपविशेयुः । पुत्रः पत्नी अन्यो वा दाहकर्ता तद्दिने (२) उपवासं कुर्यात् । बालवृद्धादयस्तु यथाशक्ति एकभुक्तादिकं कुर्युः । त्रिरात्रं ब्रह्मचारिणोऽधः शायिनो भवेयुः । पुत्रादयः पिण्डं दत्त्वा दिवाऽन्नमश्नीयुः (३) न किञ्चन
(१) “प्रेतस्पर्शिनो ग्रामं न प्रविशेयुरानक्षत्रदर्शनात् रात्रौ चेदाऽऽदित्यस्य " इति पारस्करवचनात् प्रेतकार्यानन्तरं यद्यपि रात्रौ ग्रामप्रवेशो निषिद्धः तथाऽपि “रात्रौ चेदाssदित्यस्य" इत्यनन्तरं "ब्राह्मणानुमत्या वा" इति शुद्धितत्रे ( ३१९ पृ० ) हारीतवचनात् ब्राह्मणानुमतिं गृहीत्वा रात्रावपि प्रविशेयुः ।
( २ ) देवजानीयकारिकायाम् -
उपवास गुरौ प्रेते पत्न्याः पुत्रस्य वा भवेत् । दिवाचैव तु भोक्तव्यममांसं मनुजर्षभ ॥
इति वचनात् ।
- ( ३ ) “दिवाऽन्नमश्नीयुर मांसम्” इति पा० कॉ० ३ । १० ) गृह्यात् ।
1