________________
१५२
अन्त्यकर्मदीपकोत्तरार्धे पुत्रकृत्यमशेषं च कृत्वा दोषो न विद्यते । इति हेमाद्रौ लैङ्गोक्तेः। हीनवर्णासु परपूर्वासु स्त्रीषु तदुत्पन्नेषु पुत्रेषु च आशौचं नास्ति ।
परपूर्वासु च स्त्रीषु पुत्रेषु कृतकेषु च ।
नानध्यायो भवेत्तत्र नाशौचं नोदकक्रिया ॥ इति शङ्खोक्तः । एवं हीनवर्णं गतासु स्वभार्याध्वपि नाशौचम् ।
पाखण्ड्यनाश्रिताः स्तेना भर्तृघ्न्यः कामगादिकाः ।
सुराप्य आत्मत्यागिन्यो नाशौचोदकभाजनाः ॥ इति याज्ञवल्क्योक्तेः। सवर्णासु तु परपूर्वासु तदपत्येषु च___ अनौरसेषु पुत्रेषु भार्यास्वन्यगतासु च ।
परपूर्वासु च स्त्रीषु त्रिरात्राच्छुद्धिरिष्यते ॥ इति शलोक्तेः । भर्तृपित्रोस्त्रिरात्रम् । सपिण्डानां तु एकाहः ।
सूतके मृतके चैव त्रिरात्रं परपूर्वयोः । .. एकाहस्तु सपिण्डानां त्रिरात्रं यत्र वै पितुः ॥ इति मरीच्युक्तेः। पूर्वापरभव॒ त्पन्नयोः पुत्रयोस्तु परस्परंजनने एकरात्रम् , मरणे त्रिरात्रम् । मातुरैक्याद् द्विपितृको भ्रातरावन्यगोत्रजौ ।
एकाहं सूतकं तत्र त्रिरात्रं मृतकं तयोः । इति मरीच्युक्तेः इति दिक् ।
इति संक्षेपेणाशौचकालनिर्णयः।
बाणाष्टनवभूवर्षे (१९८५) कार्तिके शुक्लपक्षके |
एकादश्यां भृगौ पूर्तिमगादेषोऽन्त्यदीपकः ॥ इति श्रीनित्यानन्दपर्वतीयविरचितः आशौचकालनिर्णयसहितः
अन्त्यकर्मदीपक: समाप्तः ।
शुभम् ।