________________
आशौचकालनिर्णयः ।
उपसर्गसृते चैव सद्यः शौचं विधीयते ।
इति पराशरोक्तेश्च अत्यन्तमर के सद्यः शौचम्' इति शूलपाण्यनिरुद्धभट्टादयः । उपद्रवोऽत्यन्तमरक इति कमलाकारः । उपसर्गोऽत्यन्तमरक इति शूलपाणिः । उपसर्गो विस्फोटादिरिति सिन्धुव्याख्यायां कृष्णभट्टः । 'पद्यपि च कष्टायां सद्यः शौचं विधीयते ।
१५१
1
इति याज्ञवल्क्यवचनान्मरणसमयेऽपि नाशौचम् । तेन मुमूर्षो: दानसङ्कल्पादि न दोषाय । सति वैराग्ये सन्न्यासोप्यातुरस्य भवति' इति केचित् । व्रतयज्ञविवाहेषु श्राद्धे होमेऽर्चने जपे ।
आरब्धे सूतकं न स्यादनारब्धे तु सूतकम् ॥ इति वचनादारब्धेषु व्रतादिषु नाशौचम् | प्रारम्भ वरणं यज्ञे सङ्कल्पो व्रतसत्रयोः ।
नन्दीश्राद्धं विवाहादौ श्राद्धे पाकपरिक्रिया ||
इति लक्षित: प्रारम्भः । पाकपरिक्रियेत्यस्य पाकप्रोक्षणमित्यर्थ इति शुद्धिदीप: । तन्नेति कमलाकरः ।
'अत्र तत्तत्कर्मण्येवाशौचनिवृत्तिः । तेन कर्मान्तरेऽनधिकारो व्यवहारे चास्पृश्यत्वमस्त्येव' इति शुद्धिविवेकादौ स्पष्टम् |
पतितानां मरणे सद्यः शौचम् |
हतानां नृपगोविप्रैरन्वक्षं चात्मघातिनाम् । इति याज्ञवल्क्यवचनात् । आत्मघातिग्रहणं पतितमात्रोपलक्षणार्थम् । यतिमरणे त्वाशौचं नास्ति |
त्रयाणामाश्रमाणां च कुर्यादाहादिकाः क्रियाः ।
यतेः किञ्चिन्न कर्तव्यं न चान्येषां करोति सः ॥ इंति ब्राह्मात् ।
सर्वसङ्गनिवृत्तस्य ध्यानयोगरतस्य च । न तस्य दहनं कार्यं नाशौचं नोदकक्रिया ॥ इति स्मृतेश्च ।
एवं कृतजीवच्छ्राद्धे मृते सपिण्डैराशौचादि कार्यं न वा । मृते कुर्यान्न कुर्याद्वा जीवन्मुक्तो यतः स्वयम् । कालं गते द्विजो भूमौ खनेद्वाऽपि दहेत वा ॥