________________
यत्याराधनप्रयोगः। १२७ तत: केशवादिस्थानीयद्वादशविप्रेभ्यः ताम्बूलं दक्षिणां च दत्त्वा विष्णुस्थानीयाय विप्राय 'यत्पुरुषेण' इति ताम्बूलं 'सप्तास्यासन्' इति द्विगुणां दक्षिणां दत्त्वा 'यज्ञेन यज्ञम्' इति मन्त्रान्ते 'विष्णुरूपगुरो एष पुष्पाञ्जलिस्ते नमः' इति पुष्पाञ्जलिं दद्यात् । तत सर्वान् प्रदक्षिणीकृत्य नमस्कृत्य हर्षपुरःसरमनुव्रज्य विसर्जयेत्-'मया यः कृतो नारायणबलि: तन्मध्ये न्यूनातिरिक्तो यो विधिः स नारायणप्रसादाब्राह्मणवचनाच्च परिपूर्णोऽस्तु' इति प्रार्थयेच्च । अस्तु परिपूर्ण इति विप्रा वदेयुः ।। ____ तत: 'कायेन वाचा' इत्यादिना कृतं कर्म नारायणाय समर्प्य यस्य स्मृत्येति पठित्वा विष्णुं संस्मृत्य गवादिभ्यो बलिं दत्त्वा सुहृद्युतो भुञ्जीत । नारायणबलिकाले पूजितां शालिग्रामशिलामाचार्याय दद्यादित्याचारः ।
___ इति नारायणबलिप्रयोगः ।
अथाराधनम् । तत्प्रकारो नागरखण्डे
द्वादशाहे मृताहे च आराधनमथाचरेत् । श्रीगुरुं तद्गुरुं चैव परमेष्ठिगुरुं तथा । परात्परगुरुं चैव केशवादीन् स्वनामभिः । गुर्वर्थे चतुरो विप्रान् केशवादीन् स्वशक्तितः ।। सम्पूज्य भोजयेदन्नैः सघृतव्यञ्जनादिभिः । द्वादश्यामथवा शुक्ले सम्यगाराधनं चरेत् ॥ इति ।
मृताहे चेति चकारात्प्रतिमासं मृततिथावासंवत्सरात् । सङ्ग्रहे-'यतौ मृते तु वपनं पार्वणं विष्णुपूजनम् ।
प्रत्यब्द प्रतिमासं च कुर्यादाराधनं बुधः ॥ एतेन प्रत्यब्दमपि मृततिथावाराधनं सिद्धयति । त्रयोदशाहकालो वचने यद्यपि नोपलभ्यते तथापि शिष्टाचारसिद्धो ज्ञातव्यः ।
अथाराधनप्रयोगः। .. तत्र गुर्वादिचतुष्टयस्थाने एकैको विप्रः केशवादिस्थानेषु प्रतिस्थानमेक इति षोडश विप्रा: केशवादिनामेक एवेति पञ्चैव वा विप्राः ।