________________
१२६
अन्त्यकर्मदीपकोत्तरार्धे एवं नारायणादिविष्ण्वन्तानां पात्रस्थमनमुत्सृजेत् शुक्लपक्षे सिद्धिं गतश्चेत् । ____ कृष्णपक्षे सिद्धिं गतश्चेत्संकर्षणायुद्देशेन । “विष्णोर्नुकम्" इति चतस्रः पूर्वोक्ता: कण्डिकाः ।
. ॐ विष्णोः कर्माणि पश्यत यतो व्रतानि पस्पशे। इन्द्रस्य युज्यः सखा ॥ १ ॥ तद्विष्णोः परमं पद सदा पश्यन्ति सूरयः । दिवीव चक्षुराततम् ॥२॥ ( य०सं० ६-४,५) त्रीणि पदा विचक्रमे विष्णुर्गोपा अदाभ्यः । अतो धर्माणि धारयन् ॥१॥ तद्विपासो विपन्यवो जागृवासः समिन्धते विष्णोर्यत्परमं पदम् ॥२॥ ( य०सं० ३४-४३, ४४ ) ॐ तदेवाग्निः ॐ तदादित्यः ॐ तद्वायुः ॐ तदु चन्द्रमाः ॐ तदेव शुक्र ॐ तद् ब्रह्म ॐ ता आपः ॐ स प्रजापतिः इति जपेत् । तत:
ब्रह्मार्पणं ब्रह्महविब्रह्माग्नौ ब्रह्मणा हुतम् ।
ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्मसमाधिना ।। इति जलमुत्सृज्यापोशानम् “ॐ अमृतोपस्तरणमसि स्वाहा"इति दत्त्वा “नाभ्या आसीत्" इति अपोशानग्रहणकाले पठेत् । ततः प्राणाहुत्यन्ते अपेक्षितमिति प्रार्थ्य उपनिषद्भागान् पठेत् । 'तृप्ता: स्थ' इति पृष्ट्वा 'तृप्ताः स्मः' इति प्रत्युक्ते उत्तरापोशानम् "ॐ अमृतापिधानमसि स्वाहा” इति दद्यात् । तत आचन्तेषूपविष्टेषु महाविष्ण्वर्थस्य त्रयोदशविप्रस्य उच्छिष्टसन्निधौ प्राङ्मुख उदङ्मुखो वोपविश्य स्वाग्रभूमि गोमयेनोपलिप्य तत्र प्रागप्रानुदगग्रान्वा दर्भानास्तीर्य तेषु 'ॐ नमो नारायणाय' इति मन्त्रेण द्वादशस्थानेषु प्राक्संस्थमुदक्संस्थं वाऽत्ततोदकं दत्त्वा तेषु शेषपायसेन
शुक्ले केशवादिद्वादशनामभिः कृष्णे सङ्कर्षणादिनामभिः, 'केशवरूपगुरो एष ते पिण्ड: स्वाहा न मम इत्यादिप्रयोगेण गुरवे द्वादश पिण्डान् दद्यात् । ततः पूर्ववत्पिण्डानामुपरि अक्षतोदकं दत्त्वा पिण्डेषु विष्णुं गन्धपुष्पधूपदीपफलताम्बूलदक्षिणाभिः सम्पूज्य पुरुषसूक्तेन स्तुत्वा नमस्कृत्य पिण्डान् विसर्जयेत् ।