SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ १०४ अन्त्यकर्मदीपकोत्तराई ॐ भुवः सावित्रीं प्रविशामि भर्गो हि । ॐ स्वः सावित्रीं प्रविशामि धियो० यात् । इति व्यासेन०, तत:___ ॐ "भूर्भुवः स्वः सावित्रीं प्रविशामि तत्सविण्यात् । इति समासेन गायत्रीप्रवेशः । ॐ व्याहृति प्रविशामि भूः। ॐव्याहृतिं प्रविशामि भुवः । ॐ व्याहृति प्रविशामि स्वः। ॐव्याहृतोः प्रविशामि भूर्भु. वः स्वः । इति व्याहृतिप्रवेशः । तत: प्राङ्मुख ऊर्ध्वबाहु:___ॐ भूः संन्यस्तं मया ॐभुवः संन्यस्तं मया ॐस्वः संन्यस्तं मया ॐ भूर्भुवः स्वः संन्यस्तं मया इत्युपांशु मध्यममुच्चैश्च त्रिब्रूयात् । तत: ॐ अभयं सर्वभूतेभ्यो मत्तः स्वाहा इति प्राच्या दिश्युदकं निनयेत् । ततस्तूष्णीं शिखां निकृत्य यज्ञोपवीतं च छित्त्वा तवयमुदकाअलिना सह गृहीत्वा ॐभूः स्वाहा इत्यप्सु जुहुयात् । तत ऊर्ध्वं पितृगृहं न गच्छेत् । अत्यन्तमातुरश्चेत्प्रैषमात्रं वदेत् । तत आचम्य यस्य स्मृत्येति पठेत् । इत्यातुरसंन्यासप्रयोगः । -20020अथ ब्रह्मीभूतयतिदेहसंस्कारप्रयोगः । देहपातानन्तरं पुत्रादिः शिष्यो वा स्नात्वा आचम्य हस्ते कुशादिकं गृहीत्वा देशकालौ संकीर्त्य मम करिष्यमाणयतिसंस्कारेऽधिकारसिद्धयर्थं कृच्छत्रयात्मकं प्रायश्चित्तं गोत्रयनिष्क्रयद्रव्यदानद्वाराऽहमाचरिष्यामि | तत्पूर्वाङ्गत्वेन वपनं करिष्ये इति संकल्प्य कक्षोपस्थशिखावज वपनं कृत्वा स्नात्वाऽऽचम्य पुनः कुशादिकं गृहीत्वा इदं गोत्रयनिष्कयद्रव्य ... रजतं चन्द्रदैवतं सद्यो यथाकलं वा दास्ये इति संकल्पयेत् । पुत्रातिरिक्तस्य वपनं न . भवतीति केचित् । पुनः · कुशादिकं गृहीत्वा
SR No.010150
Book TitleAntya Karm Dipak
Original Sutra AuthorN/A
AuthorNityanandparvati
PublisherChaukhamba Sanskruti Pustakalaya
Publication Year1952
Total Pages169
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Ritual, Religion, & Vidhi
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy