________________
२]
[ તવવોધિની વિકૃતિવિભૂતિમ્ यस्यास्ति प्रतिभैव शालनिचये तत्वार्थतन्दर्शिनी
यो नित्यं कृतिमातनोति विमलां तत्त्वप्रधाभासुराम् । व्याकृत्यादिविचारणा प्रतिदिनं यच्छिष्यवर्गे बरा
त भक्त्या प्रणमाम्यहं गुरुपरं श्रीनेमिसूरीश्वरम् ॥ ४॥ सेवा शास्त्रस्य नित्यं विलसतु रचनाव्याजतो मामकीना ___ स्वाभ्यासो वृद्धिमीयाजिनमतविषयो वाऽस्तु बालोपकारः। इत्याशातः प्रवृत्तिस्त्विह विवृतिविधौ या च लावण्यपूरेः
साऽनेकान्तव्यवस्थाप्रकरणविषयाचाशतोऽप्येत्वभीम्॥५॥ ऐन्द्रस्तोमनतं नत्वा वीतराग स्वयम्भुवम् । अनेकालव्यवस्थायां श्रमः कश्चिद् चितन्यते ॥१॥
प्रारिप्सितस्य जनतकापराभिधानाऽनेकान्तव्यवस्थाप्रकरणस्य निर्विनपरिसमाप्तये स्वाभीष्टदेवनमस्कार लक्षणंमङ्गलमाचरन्ननुनुबन्धचतुष्टयाचगतिनिमित्तमन्वर्थग्रन्थनाम निवनाति-ऐन्द्रस्तोमनतमिति'इन्द्रस्तोसनतम्' इत्युक्तावपि इन्द्राणां - सुराधिपतीनां स्तोमः समूहस्तेन नतं प्रणतिकर्मत्यतः पूजातिशयो लभ्यत एव, एवमपि यद् ‘पेन्द्र स्तोमनतम्' इत्युक्तं तेन स्वनिर्मितग्रन्थमात्र ५५ श्रीयशोविजयमहोपाध्यायः स्वाभीष्टसरस्वतीमन्त्रस्य ऐड्वारस्य शरणं करोत्येव, तेन च श्रीमद्यशोविजयासिधस्यं स्वस्य के तत्वभपि लभ्यत इत्युपदर्शित भवति, अत्र इन्द्रसम्बन्ध्यर्थकस्यैन्द्र पदस्थ सोमपदेन ससूहार्थकेन कर्मधारयसमालः। 'वीतरागम्' इत्यनेन संश्लेशजननरागादिराहित्यतस्तत्सहचरितद्वेषादिराहित्यस्याप्यवातिरित्यतोऽपायापगमातिशयोऽवगम्यते। 'स्वयम्भुवम्' इत्यनेन च नानातिशयः, ज्ञानरूपेणैव सर्वदा स्वयं परिणमतेऽयम् , अतः स्वयं तथाभवनात् स्वय भूरिति । एतन्नमस्कारकरणानन्तरमनेका - व्यवस्थायां श्रमस्य यद् विधानं तेनार्थादिमावेदितं भवति यधुक्त