________________
अनेकातिव्यवस्थाप्रकरणम् ]
[३८७ विज्ञानोपकारित्वेनाभ्युपगमात् , न द्वितीय:-विरुद्धत्वात् , साध्यविपर्ययेण दृष्टान्त हेत्वोन्यप्तित्वेन प्रतीतेः, अविकारिण्युपकारस्याशक्यक्रियत्वेन पारा.योगाच न तृतीयः,यथाकथञ्चित् पारायंस्य सर्वैरभ्युपगमात् । न च चित्तमपि साध्यधर्मित्वेनोपात्तमिति तदपरस्य परस्य साध्ये प्रवेशान्न सिद्धभाधनम् , अपरस्याविकारिण उपकार्यवासम्भवात्, चक्षूरूपालोकमानस्काराणामपरचक्षुरादिकदम्बकोपइति प्रथमपक्षो नास्मभ्युपगमविरोधीत्यर्थः। सिद्धसाधनमेव व्यव. स्थापयनि- अस्माभिरपीति-सायमिन्नवादिभिरपीत्यर्थः । चक्षुरादीनामिति-चक्षुरादिभिरात्मनि विनिपातिशय आधीयत इत्याधेयाति. शयपरार्थत्वं चक्षुरादीनामनुमतभवति सिद्धस्यैव साधनमेतदिति । न द्वितीय इति- अविकानाधेयातिशयो यः पर दर्थत्वं चक्षुरादीनामिति द्वितीयपक्षो न समीचीन इत्यर्थः । विरुदत्यादिति- संचातलक्षणहेतारविकानाधेयातिशयपरार्थत्वलक्षणसाध्यस्थामावन व्याप्तवादित्यर्थः । विरुद्धत्वमेव प्रकट यति- साध्यविपर्ययेणेति- साध्याभावन लहटान्तस्य-शयनामनादः, हेतोश्च-संघातत्वस्थ, व्याप्त वेन प्रतीते - शयनासनादिकं विकाधियातिशयपरार्थत्वेन तंत्र सातत्वरूपहेतोरविनामाववत्तया प्रतीतेरित्यर्थः। येन परस्मिन् कश्चिदुपकारः क्रियते स परार्थो भवतिः अविकारिणि चात्मनि परमिन् नोपकारः शक्यक्रिय इनि तथाभूतस्य परस्याभिमतत्व पारार्थासम्भवादित्याह- अविकारिणीति। सामान्येन पार्थत्व साध्यवनाभिप्रेतमिति तृतीयपक्षोऽपि न समीचीन इत्याह- न तृतीय इति । सिद्धसावनमत्रापीत्याह- यथाकञ्चिदिति । सिद्धसाधनपरिहारमाशङ्कय प्रतिक्षिपति-न चेति-विज्ञानरूपपरार्थत्वं चक्षुरादीनामाश्रित्य सिद्धसाधनं य१पदर्शितं प्राकू तन 'चक्षुरादयः परार्थाः' इत्यनुमाने चक्षुरादित्वेन विज्ञानलक्षणचित्तस्यापि पक्षकोटिप्रविष्टत्वेन तपे