________________
३६२]
[ તવોધિનીધિવૃતિવિભૂષિત शब्दादिलक्षणं व्यक्तं सुखान्वित सिद्धम्, सुखादीनां ज्ञानरूपत्वात् । शब्दादीनां च तद्रूपविकलत्वात् , न च सुखादीनां ज्ञानरूपत्वमसिद्धम्, खसंवेदनरूपतया स्पष्टमानुभूयमानत्वात् तत्वसिद्धः, तथाहि स्पष्टेयं सुखादीनां प्रीति-परितापादिरूपेण शब्दादिविषयसन्निधाने प्रकाशारिनिरपेक्षा प्रकाशामिका (संवित्तिः, यच्च प्रकाशान्तरनिरपेक्षं सातादिरूपतया स्वयं सिद्धिमवतरति तद् 'ज्ञान, संवेदनं, चैतन्यं, सुखम्' इत्यादिभिः पर्यायशब्दरभिधीयते, न च सुखादीनामन्येन संवेदनेन वेदनादनुभूयमानता, तत्संवेदनस्यासातादिरूपताप्रसक्तेः, नहि योगजप्रत्यासत्याऽनुमानादिना चा परकीयसुखादिसंवेदने सातादिरूपता दृष्टा। असिद्धत स्वरूपासिद्धत्वम् , ' उङ्गावयन्ति' इत्यत्र कर्मतयाऽन्वितम् । तदुभावनस्वरूप प्रकट यति- तदाहीत्यादिना। तद्रूपविकलत्वात् शान. रूपरहितत्वात् । सुखादीनां ज्ञानरूपत्वासिद्धिमाशङ्कय परिहरतिन चेति । तत्वसिद्धः सुखादीनां ज्ञानरूपत्वसिद्धः । वसंवेदनप्रत्यक्ष विषयत्वेन सुखादीनां ज्ञानरूपत्वसाधनमुपदर्शयति- तबाहीति । 'स्पष्टेयम्' इत्यस्य 'स्वसंवित्तिः' इत्यनेनान्वयः। 'सुखादीनाम् ' इत्यादिपदाद' दुःखादीनामुपसङ्ग्रहः, शादिविषयसन्निधाने सति प्रकाशान्तरमन्तरेणैव प्रीतिरूपेण सुखस्य प्रकाशामिका (पसंवित्तिर्भवति, तथाऽनिश्शदादिविषय सन्निधाने सति परितापरूपेण प्रकाशावरमन्तरेण दुःखस्य प्रकाशात्मिका रचसंवित्तिर्भवतीत्यर्थः । 'सातादि' इत्यादिपदादसातादेरुषप्रहः । सुखादीनामन्येन संवेदनेन वेदनतोऽनुभूयमानत्वं प्रतिक्षिपति-न चेति । तत्सवेदनस्य सुखादीनामन्यवेदनेन संवेदनस्य । अन्य वेदनेन संवद्यमानस्य सातादिरूपत्वमहत्वान्न भवतीत्युपदर्शयति- नहीति-अस्य 'दृष्टा' इत्यनेनान्वयः, परकीयसुखादीनां यक्षानं तनियमेन विषयीभूतपरसुखादितो