________________
अनेक व्यवस्थाप्रकरणम् ]
[ ३३५. सुख-दुःख-मोहादिजातिसमन्वित चेदं व्यामुपलभ्यते, प्रसादताप-दैन्यादिकार्योपलव्धे, तथाहि-प्रसाद लाधवा-ऽभिष्वङ्गोद्धर्ष
प्रीतयः सत्यस्य कार्यम्, सुखमिति च सत्यमेवोच्यते; ताप-शोप* भेद-स्तम्भोद्वेगारजसः कार्यम् , रजश्व दुःखम् दैन्याऽऽभरण-सादना
वध्वंस-वीभत्स-गौरवाणि तमसः कार्यम् , तमश्व मोहशब्देनोच्यते एषां च महदादीनां सर्वेषां प्रसाद-ताप-दैन्यादिकार्थमुपलभ्यत इति सुख-दुःख-मोहानां त्रयाणामेते सनिवेशविशेषा इत्यवसीयते, तेन सिद्धभतेषां प्रसादादिकार्यतः मुखाचन्धितत्वम्, तदन्याच तन्मयप्रकृतिसम्भूतत्वमिति प्रधान सिद्धिः २ । तथेह लोके यो यस्मिन्नर्थ प्रवर्तते स तत्र शक्त, यथा-तन्तुबायः ५८करणो, अतो व्यक्तोत्पादनाथ प्रवर्तमान किञ्चित् कारणं शक्तिमदेष्टव्यम् , तदेव प्रधानमिति शक्तित: प्रधान सिद्धिः३। तथेह लोके कार्य-कारणयोर्विभागो दृष्टः, तद्यथा-मृत्पिण्ड: कारणं घट झार्यम् , स च मृत्पिण्डाद् विभक्तः, तथाहि-घटो मधूदक पयसां धारणसमर्थो न मृत्पिण्डा, ति। ३६ व्यक्त महदादिलक्षण व्यक्तम् । प्रलादःसुखस्य कार्यम्, तापो दुःखस्य कार्यम् , दैन्यं मोहल्य कार्यमिति तदुपलब्धित: सुख-दुःखमोक्षादिजातिसमन्वितं धयादिकमित्याह प्रसादति । प्रसादादिकार्थता सुखादिसमन्वितत्वं महदादीनां भावयति-तयाहीति- उद्धर्षो रोमाञ्चम् , स्पष्टमन्यत् । एते बुद्धादयः, तेन सुख-दुःख-मोहसन्निवेशविशेषत्वेन। एतेषां महदादीनाम् । तदन्याच सुरवान्वियात् पुन। तन्मयेतिसुखादिमयेत्यर्थः।
प्रधानसिद्धिनिबन्धन 'शक्ति प्रवृत्तेः' इति तृतीयहेतुं भावयतितथेति । कारण-कार्यविभागाद्' इति चतुर्थहेतुं भावयति- तथेति । कार्यकारणविभागमे पयति- तद्यथेति । स च घटश्च । मृत्पिण्डाद विभक्तत्वमेव घटस्थ व्यवस्थापयति- तयाहीति । एवं यथा घटो