________________
अनेकान्तव्यवस्थाप्रकरणम् ]
यज्ज्ञानमात्रादेव सर्वेषां मुक्तिः, न तु वर्णाश्रमोचिताचारस्याप्यपेक्षा,
[ ३२३
वदुक्तम्
" पञ्चविंशतितत्वज्ञो, यत्र यतो त्राश्रमे रतः । जटी मुण्डी शिखी वापि, सुच्यते नात्र संशयः " ॥ [ ] इति । महदादयश्च प्रधानात् प्रवर्तमाना न कारणादत्यन्तभेदिनो भवन्ति चौद्धाद्यभिमता इव कार्यभेदाः, किन्तु त्रैगुण्यादिना प्रधानात्मान एच, तथाहि यथा प्रधानं त्रिगुणात्मकं तथा बुद्ध्यहङ्कार तन्मात्रेन्द्रिय-भूतात्मकं व्यक्तमपि त्रिगुणात्मकम्, कृष्णादितन्त्वारख्घपटादेः कृष्णादित्वस्यैवोपलम्भेन कारणगुणानुरूपगुणस्यैव कार्यस्य सिद्धेः । किञ्च 'इमे सत्वादयो गुणाः, इदं च महदादि यति - न त्विति । वर्णेति - ब्राह्मण-क्षत्रियवैश्यशूद्राश्चत्वारो वर्णाः, ब्रह्मचर्य - गार्हस्थ्य वानप्रस्थ-संन्यासाश्चत्वारश्चाश्रमाः तेपां प्रत्येक कर्तव्यत्वेन विहितस्याचारस्य प्रतिनियतस्यापि सुकौ नापेक्षेत्यर्थः । उक्तार्थे प्राचां सम्मतिमाह- तदुफमिति । ' जटी ' इति जटाधारिणां ब्रह्मचर्य - वानप्रस्थानां श्रहणम् । 'मुण्डी' इति संन्यासिनो ग्रहणम् । ' शिखी ' इति गृहस्थस्य ग्रहणम् । साङ्ख्यमते कार्यस्य कारणादभेद एव न तु भेद इत्याह- महदादप्रचेति । 'बौद्धा०' इत्यादिव्यतिरेकि
,
टान्तः तथा च बौद्धादिमते तथा कार्याणि कारणादत्यन्तभिन्नानिन तथा साङ्ख्यमते महदादिकार्य प्रधानरूपकारणतोऽत्यन्तभिन्नमित्यर्थः । यदि महदादयो न प्रधानादत्यन्तभिन्नास्तद्दि कीदृशास्ते ? इति पृच्छति - किन्तिवति । उत्तरयति - त्रैगुण्यादिनेति । महदादीनां त्रैगुण्यादिना प्रधानात्मत्वमेव प्रपञ्चतो दर्शयति- तथाहीत्यादिना । प्रधान नस्य त्रिगुणात्मकत्वे तत्कार्यस्य महदादेरपि त्रिगुणात्मकत्वं कारणगुणानुरूपगुणकमेव कार्य भवतीत्येतत्समर्थनेन व्यवस्थापयतिकृष्णानीति | त्रिगुणत्वेन महदादिकार्यस्य प्रधानात्मत्वं व्यवस्थाप्या