________________
८१९
सम्मान्यमेतद्विधिवत्सुरेन्द्रैः
शास्त्रोत्तमं यः प्रकटीकरोति । तस्यैव कीर्तिमहती च संपत्
विजृम्भते शास्त्रकृतः प्रसादात् ॥ १३ ॥ इलि दिव्येन विश्वकर्मणा प्रणीते विश्वकर्मवास्तुशास्त्रे ___ मनुष्यजन्मफलकथनं नाम
सप्ताशीतितमोऽध्यायः ॥ इत्युपदेशः । एवंप्रकारेण हरिहरादिदिव्यबेरेषु विश्वकर्मणि विश्वकर्मकृतवास्तुशास्त्ररने चादरं कृतवतां तत्प्रसादमहिना दिव्य संपवृद्धयादिकमिति शास्त्र सेवनफलमप्युक्तं ज्ञेयम् ।।
विश्वकर्मकृतस्यास्य वास्तुशास्त्रस्य सङ्ग्रहात् । प्रमाणबोधिनीव्याख्या कलिता विदुषां मुदे ॥ अनन्तकृष्णभट्टायशिल्पव्याख्यानपण्डितैः । तक्षकादिहितायैषा क्रियाणामपि सिद्धये ॥ इति श्रीमदनन्तकृष्णभट्टारकविरचितायां प्रमाणबोधिन्याख्यायां
विश्वकर्मवास्तुशास्त्रव्याख्यायां मनुष्यजन्मफलकथनं नाम
सप्ताशीतितमोऽध्यायः॥ समाप्तमिदं विश्वकर्मवास्तुशास्त्रम् । ॥ प्रीयतां भगवान शेषशायी ।।