________________
८१८
निदानं सर्वमानानां शास्त्राणामुत्तमं मतम् । श्रोतॄणां पठतां पुंसां चतुर्वर्गफलप्रदम् ॥ ९ ॥ सर्वदेवप्रीतिकरं स्थपत्यादेस्सुखप्रदम् । लेखनाद्वाचनादस्य प्रसन्नास्सर्वदेवताः || १० ||
विश्वकर्मकृतं शास्त्रमेतत्सेव्यं मनीषिभिः । ब्राह्मणैः क्षत्रियैश्यैः स्थपत्यादिभिरन्वहम् ॥ ११ ॥ सर्वक्षेमकरं प्रोक्तं मुनिभिस्तत्वदर्शिभिः । विश्वकर्मा च भगवान्ध्येयः प्रातस्सुखार्थिभिः || शास्त्र भगीरथगङ्गानयन क्रमात्सूतादिभिस्तत्वदर्शिभिर्मुनीन्द्रै - भूलोकं नीतमित्यस्य शास्त्रस्य प्राप्तिक्रमकथनं ज्ञेयम ||
किश्च सर्वेष्वपि शिल्पशास्त्रेषु उत्तमं सर्वविधक्रियाजालानां प्रमाणलचणादिप्रतिपादनेन प्रसिद्धिमदिदं विश्वकर्मबास्तुशास्त्रं पठतां श्रोतॄणां, लिखतामपि चतुर्वर्गफलप्रदं भवति । सर्वेषामपि देवानां प्रीतिवर्धनं स्वपतितचकलोहकारादिक्रियाकारिणां श्रेयसे, कीर्तये, सम्पदे च भवति ॥
1 शास्त्रस्यास्य
किञ्च शास्त्रपारङ्गतैरसर्वैरपि बुधैर्ब्राह्मणक्षत्रियादिभिरिदं वास्तुशास्त्रं देववत्सन्ततं सम्मान्यम् प्रणेता भगवानुत्तमगुणो दिव्यशक्त्यादि संपन्नो विश्वकर्मा देवोत्तमश्च तत्र तत्र क्रियारम्भसमयादिषु शुद्धेन मनसा सर्वैरपि ध्येय