________________
शिविका मानवैर्धार्या पेटिकाकारसंयुताम् ॥ १८ ॥ अथ पार्थावरणकैहींना वेवादिदण्डकाम् ।
भूतेशो वा वृषो नानालक्रियामाण्डतो मतः ॥१९॥ पूर्व व देवबरस्थापनस्थल निर्माण कार्यमिति च शिल्पसमयः । लक्षणान्तराणि सर्वाणि तु सजीवस्य वारणस्येव योज्यानीति क्रमः ॥ ___अथ शिबिकालझणमाह - शिबिकामिति । विविधरूपं शिबिकालक्षणन्तु पुरोभागे पश्चादागे दृढं संयोजितमाधारदण्डं मानवभटस्कन्धैर्धाय प्रकल्पयेत् । तादृशाधारदण्डस्तु वेणुकृतो वा वटकृतो वा सोकर्यदायीति समयः । एवं मानवस्कन्धवाह्याधारदण्डसहितस्य शिबिकाख्यस्य वाहनस्य निर्माणन्तु पेटिकारूपं पार्श्वयोः प्रवेशद्वारोपेतं कार्यम् । अयमेकः प्रकारः। प्रकारान्तरेण तु पार्श्वभागावरणहीनं मध्यस्थदेवबेरस्थापनस्थलं देवबेरस्य मुखमण्डलस्फुरणार्थमग्रभागे मुकुरस्थानोपेतं विविधचित्रपट्टिकावृतपावपट्टिकातलं शिबिकाकल्पनं प्रकल्पयेत् ॥
किश्चात्र शिबिकानिर्माणे कचित्पूर्व भागे भूतेशगणस्कन्धधारितपूर्व दण्डं वा नन्दिदेवधारितपूर्वदण्डं वा गन्धर्वकिन्नरादिदेवगणस्कन्धधारितदण्डं वा कार्यमिति विकल्पः। अतोऽत्र तु शिबिकानिर्माणे पुष्पशिबिकादर्पणशिबिकेत्यादिभेदश्चोह्यः क्रियासौकर्यार्थ शिल्पिभिरिति ॥ १९ ।।