________________
७९६
स्थूलकाय श्वोवालः क्रुध्यन्नेत्रयुगान्वितः । कल्पनीयो देवता वारणश्च तथा पृथक् ॥ १६ ॥
आसीनस्त्वथवा तिष्ठनिक्षुदण्डकरान्वितः । कदरयुपेतशुण्डो वा भीतिहीनो मुदाऽन्वितः ॥ १७ ॥ कल्पनीयो देवयोग्यो मस्तकान्तासनान्वितः ।
गजरिपुः कश्चिन्मृगविशेषो यालीति नामान्तरभावप्रसिद्धः | तादृशयालीवाहनस्य स्वरूपन्तु सिह्मवाह्नवत्सटाश्रेण्युद्धृतलागूलादिकं योजयित्वाऽस्य यालीवाहनस्य मुखभागे शुण्डादण्डः कल्पनीयः । कचित्तादृशशुण्डादण्डस्याग्रभागे क्षुद्रप्रमाणस्यैकस्य गजस्य द्वयोर्वारणयोर्वा निर्माणं लम्बनरूपं मेलनीयम । एवं शुण्डाकर्षितवारणस्यास्य यालीवाहनस्य नेत्रयुगं क्रुद्धस्वरूपं कृत्वा स्कन्धोपरि देवबेरस्थापनाएं स्थळं निर्मापणीयमिति
तत्कल्पनक्रम: H
अथ गजवाहनलक्षणमाह वारणश्चेति । सियाल्यादिभीतिरहितस्य सन्तोषभरितस्य गजस्य यथा वा आकृतिर्भवेत् तथा वाहूननिर्माणेऽपि स्वरूपं कल्प्यम् । इदन्तु वारणवाहनं आसीनस्वरूपं वा तिष्ठत्स्वरूपं वा निर्मापणीयम् । किश्र्वास्य वारणवाहनस्य शुण्डाग्रे इक्षुदण्डयोजनं वा कदलीदण्डयोजनं वा कार्यम् । किनास्य किल वारणवाद्दनस्य मस्तकसमीपस्थले
――