________________
७९१
सिझः करालवदनस्सटापटलशोभितः । उत्तिष्ठन्पतमानो वा तथेोच्छ्रायितवालधिः ॥ ७ ॥ नागेन्द्रसहितो वापि केवलं वा गृहस्थितः । कल्पनीयो देवयोग्यो मस्तकान्तासनान्वितः ॥ ८ ॥
अथ सिह्मत्रानस्य लक्षणमाह सिह्न इत्यादिना । पूर्ववत्सारदारुखण्डैः सिझरूपं समग्र कल्पनीयम् । कीदृशलक्षणोपेतमिति चेदुच्यते । सप्राणस्य सिस्य यथा वा स्कन्धतलस्योपरि सटाश्रेणिः, मुखे दंष्ट्रादियोग:, उद्धृनलाङ्गूलादिस्तथाऽस्य दारुकृतसिह्मवाहनस्य कल्पनं तुल्यं निर्मायणीयमिति तन्निर्माणक्रमः । किश्व तादृशसिह्मवानरूपन्तु उत्थानस्वरूपशालि गजादिरिपुजालं प्रति पतनोद्युक्तरूपं वा वैरिगजेन भीतेन युतं कचिद्रहितं वा निर्मापणीयम् ॥
――――
किश्वेतस्य सिवाहनस्य पृष्ठदेशस्य पुरोभागे स्कन्धोपरि स्कन्धासम्न्नतले वा देवबिम्ब स्थापनायासनपीठिका अयःकीलबन्धिता निर्माणया । एष्वेवासनपीठिकाफलकादिपूत्सव समयेषु पूर्वोक्तदेव विम्बानां स्थापनमिति भावः । एवभुत्तरत्रापि ज्ञेयम् । किनवलक्षणोपेतं सिह्मवाहनन्तु शिवस्य विष्णोरन्येषां देवानां वा आरोहण योग्यमेव । एवं व्याघ्रवाहनं, व्याघ्रीवाहनं, सैमीवाहन कचिच्छिवस्य गौर्यादीनां देवीनावारोहणाय प्रकल्पनीयमिति मतिः ॥ ८ ॥