________________
किष्कुहस्तप्रमाणेन तस्याधिष्ठानमुच्यते ॥ ४ ॥ चतुस्स्तम्भसमेतं वा स्तम्भाष्टकसमुज्ज्वलम् । वलभीप्रस्तरयुतमण्डपाकारवन्मतम् ॥ ५ ॥ नानाचित्रावलीयुक्तं विमानशिखरान्वितम् । देवपीठसमायुक्तं यथाशोभं प्रकल्पयेत् ॥ ६॥
एवं कल्पवृक्षशाखाया अधोभागे आधारफलकायाश्चोर्ध्वतले कल्पनीयो मण्डपस्तावञ्चतुरश्रप्रमाणयुतो वा मण्डलाकारप्रमाणयुतो वा दीर्घाकृतिर्वा स्थाप्यः । कचिदस्य मण्डपस्याधोभागे किष्कुद्वयप्रमाणोन्नतिकं दारुमयमधिष्ठानं तुरगहंसम यूरशुकाद्यनेकविहङ्गमचित्रसहितं प्रकल्पयेत् । किञ्चैवमस्य कल्पवृक्षस्य छायायां यत्राधिष्ठानं क्रियते, तत्र मण्डपकल्पने तस्य मण्डपस्योयतले कल्पवृक्षशाखास्पृशिखरकलशकल्पनं निर्मापणीयमिति शिल्पसमयविदः ॥
किश्चैवलक्षणोपेतस्यास्य मण्डपस्य स्तम्भचतुष्क, स्तम्भाष्टकं स्तम्भषोडशकं वा परस्परं मिलितं कचिद्रन्ध्रयुतं वा नानाचित्रोपेतं स्थापयित्वा मण्डपस्य मध्यतले देवासनं च प्रकल्प्य उपरि वलभीप्रस्तरादिकं दृढं योजनीयमिति समयः । एवं संक्षेपेण कल्पवृक्षवाहनस्य शप्राख्यवाहनस्य निर्माणलक्षणमुक्तं बोध्यम् । कल्पवृक्षशाखादिनिर्माणं विना केवलदारुमयमण्डपः शप्र इति नामान्तरश्च भजतीति समयः ॥ ६ ॥