________________
लताभेदं चित्रभेदं मुखभेदश्च योजयेत् । तोरणाकृतिकं वापि क्षुद्रबिन्दुस्थलं तथा ॥ १३ ॥ वेदिकान्ते द्वारभागे कवाटे च गवाक्षके । तूलप्रस्तरभागेषु स्तम्भमागेषु तोरणे ॥ १४ ॥ पर्यङ्कशिबिकाडोलाकार्येष्वपि मनोहरा । शैल्येषा संप्रयोज्यैव भागन्यूनाधिकक्रमात् ॥ १५ ॥ अङ्गुलक्रममानेन किकुमानेन वा कचित् । भागमानेन वा तस्य प्रमाणं कल्पयेत्क्रमात् ॥ १६ ॥
चतुरश्ररूपं, कचिदीर्घाकारं, कचिन्मण्डलाकारं, क्वचिदतिदीर्घप्रमाणतोरणाकार, कचिल्लनापत्ररूपमित्यादिक्रमकल्पनीयं भवतीत्युपदेशः ॥ १५ ॥ ____ एवमेतेषु स्थलेषु स्थलान्तरेष्वपि अस्योपपीठकल्पनस्य योजने कचिदगुलमानमन्यत्र किष्कुमान स्थलान्तर भागमानश्च प्रयोज्य मात्वा तदनुगुणमधःपट्टकम्पवाज नादिकं योज्यमिति च प्रमाणक्रमः ॥
अस्य विशदार्थस्तु शिविकानां डोलानां गवाक्षाणां फलकानां दारुस्तम्भानां दारुखण्डकृतानां द्वाराणामन्येषां दारुकार्याणामेकाङ्गुलव्यंगुलचतुरङ्गुलादिमानयोजनं कार्यम । एवं चत्वरसमीपस्थापिताङ्गणकल्पनस्य शालाकल्पनस्थानस्य तूलप्रस्तरादि