________________
७४०
पृथकल्पक्रियोपेतं कार्याय परिकल्पते । दुर्गेषु राजधान्याश्च नगरेषु विशेषतः || २ ||
दैवं भौपमिति प्रोक्तं द्विविधं तत्प्रकल्पयेत् । स्थलकल्पनयोग्यं तत्कल्पयेद् दृढसन्धिकम् ॥ ३ ॥
भागेषु राजकीयकरग्रहणद्रव्यस्थापनशाला भाण्डारशालादिकं सर्वमपि कल्पनजालं दृढार्गलयोग्यं स्थापयेदिति तत्क्रमः ॥
एवं भूपालप्रासादकल्पितानां सर्वेषामपि कल्पनानां प्रधानरक्षाकरं द्रव्यन्त्विदमेव प्राकारकल्पनमिति भावः । यामरक्षकभटायुधादिद्रव्यन्तु द्वितीयमप्रधानमिति सतां व्यवहारः । तस्मादन्तःस्थापितानां सर्वेषामपि सिद्धासनशालाधनशालादिकल्पनानां रक्षाकरणशीलस्यास्य प्राकारकुड्य निर्माणमतिदृढमगाध भूमि लम्बन निर्माणोपेतं स्थापयेदिति लक्षणवाक्यार्थः ॥
किने लक्षणोपेतं निर्मितं प्राकारकल्पनन्तु नगरेषु राजधान्यां दुर्गस्थलेषु च यदि कृतं तदा तस्य भूपप्राकारनिर्मितिरिति व्यवहारः । एवं देवालयवास्तुभूभागे यदि कृतं तदा देवप्राकारनिर्मितिरिति व्यवहारश्च क्रमबोध्यः । एवं भूपपददेवपदप्रयोगेन किं वा फलमिति भूपप्राकार कल्पनेषु वैरिमण्डलनिरासाय नलीकाद्यायुधस्थापनं कार्यम् । देवप्राकारकल्पनेषु वृषइंस मयूरगरुडादिभक्तमूर्तिकल्पन स्थापनादिकं शान्ति