________________
अथ प्राकारलक्षणकथनं नाम
षट्सप्ततितमोऽध्यायः ॥
प्राकारकल्पनं कल्परक्षकं प्रथमं मतम् । सैन्यवेशां द्वितीयन्तु तृतीयन्त्वर्गलादिकम् ॥ १ ॥
॥ षट्सप्ततितमोऽध्यायः ॥
शास्त्रकार:
अथास्मिन षट्प्रतितमेऽध्याये देवप्रासाद भूपालप्रासादादिकल्पनस्य यत्प्राकारभित्तिनिर्माणं क्रियते तल्लक्षणमंत्र विवृणोति प्राकारकल्पनमित्यादिना । देवालयगर्भगृहस्य भूपालप्रासादादे राज्ञामात्रा मस्थानाख्यमूलस्थान कल्पनम्य दुर्गनगरमठमण्डपशालाद्यन कांवधकल्पनस्य रक्षणाथ यदुन्नताभत्तिनिर्माण क्रियते, तत्प्राकारकल्पनमिति व्यवह्नियते शास्त्रज्ञैः ||
।
तस्मादेतश्च प्राकारनिर्माणं तत्र तत्र कल्पित दुर्गदुर्गप्रासादनगरादिस्थलभेदेन विविधं भवति । यथा — प्रथमप्राकार निर्माणं, द्वितीयप्राकारनिर्माणं, तृतीयप्राकारनिर्माणमित्यादिना । किश्व भूपालप्रासाद वास्तुभूमौ स्थापितस्य प्रथमप्राकारकुड्यस्यान्तःस्थले तत्कल्पनरक्षणयोग्यं सेनानिवेशं स्थापयेन । तत्र च सेनास्थाने कतिपयानां वाजिनां वारणानां खङ्गाद्यायुधधारिणां भटानाच स्थितिः । तादृशस्थलमुखद्वार गोपुरद्वारस्योभयोरपिं पार्श्वयोरलङ्कारादिक्रिया कार्येति समयः । किञ्च द्वितीयतृतीयादिप्राकारादिस्थलेषु समुचित