________________
७०६
कर्पूरचन्दनरसैः सेचयेद्वासयेदपि ॥ १२ ॥ दैवब्रह्मविभेदेन तत्स्थानं द्विविधं मतम् । तत्र पूर्वस्थले भद्रमण्टपं कारयेन्नृपः || १३ ||
तत्पूर्वमष्टपं वापि प्रभष्टमुखकेलिकम् । चतुःस्तम्भसमेतं वा स्तम्भाष्टकसमुज्ज्वलम् ॥ १४ ॥
एवं देवबेराणां नयनोन्मीलनदिनात्पूर्वमेव तदिदं गर्भगेहमन्तर्बहिश्व स्थले कर्पूरचन्दनरसादिना तल्लेपादिना च वासयित्वा चूतपत्रवितानतोरणदीपारोपणादिकं कारयेत ॥
एवं निर्मितस्यास्य गर्भगेहस्य पूर्वभागो ब्रह्मभाग इत्युच्यते । देववेदिकास्थापनन्तु देवस्थानमिति च प्राचां व्यवहारः । तस्मादेवं निर्मितस्यास्य गर्भगृहकल्पनस्य नातिदूरे पूर्वभागे गर्भगृहप्रथमद्वारकुड्यमिलितमेव पूर्व मण्डवाख्यभद्रमण्डप निर्माणं स्थापयेत् । क्वचिदस्य पूर्वमण्डपस्य च पुरोभागे तन्मानयुतमेव मण्डपान्तरकल्पनमपि विहितं भवति । एतादृशमण्डपाङ्गणस्थलतरणानन्तरमेव पूर्वोक्तस्य तस्य ध्वजस्तम्भस्य बलिपीठस्य च स्थापनस्थलमिति विवेकः । विश्व कचिदेवालये प्राकारद्वयावृते वा प्राकारत्रयावृते बा तस्य द्वितीयप्राकारद्वारस्य पुरतः स्थले वा तृतीयप्राकारद्वारस्य पुरतः स्थळे वा तच ध्वजस्तम्भ निर्माणं कार्यमित्युक्तं भवतीति आशयो बोध्यः