________________
७०५
गर्भन्यासेन संयुक्तं यन्त्रपट्टेन चान्वितम् । सर्वेषामपि देवानां देवीनामेवमाचरेत् ॥१०॥
नानाङ्गणविभक्ताङ्गबहिरङ्गणकल्पितम् । तत्र स्थाप्यं शुभे काले देवानां बेरजालकम् ॥ ११ ॥ नयनोन्मीलनं प्रायश्चात्र कार्य मुदाहृतम् ।
किश्चैतस्य मूलबेरवेदिकाकल्पनस्य पुरोभागे तदासन्नतले उत्सवबेरस्थापनार्थ कल्पनीया वेदिका दारुमयी सुधेष्टिकाकल्पिता वा शिलामयी वा यथाभिरुचिविभवं प्रकल्पनीयेति क्रमः । अपि च सर्वत्र मूलबेरवेदिकायामुत्सवबरवेदिकायामनेकबिम्बस्थापनाय कचित्तस्यां नानाङ्गणविभजनं कारयेत् । कुतः ? तेषां बेराणां पृथक्पृथक्स्थापनार्थमिति ।।
अपि चैवमत्र गर्भगृहमध्यस्थाने एतस्याः देववेदिकायाः स्थापनात्पूर्वमेव प्रयोगविच्छिल्पी देवगर्भविन्यासाईदेवचिह्नानि ताम्रपट्टे विलिख्य गर्भविन्यासप्रकरणप्रतिपादितरीत्या अवटे निक्षिप्य मृदाऽऽच्छाद्य तदुपरि तामिमां दैवीं वेदिकां स्थापयित्वा तत्र वा क्रियाशालायां स्थलान्तरे वा निमितान्यनेक. विधानि देवबेराणि तां वेदीमारोप्य दृढं बन्धयिस्वा शुभकाले नदति मङ्गलवाद्यजाले देवीनां देवानाञ्च नयनोन्मीलनं यथाक्रमं कारयेदिति शिरूपाचार्यकार्यक्रमो शेयः॥
8.8. 89