________________
दक्षिणोत्तरसूत्रान्तं सममानमथापि वा। योजयेन्मेरुभवनं मानं मध्यस्थकूटके ॥ ३ ॥
कल्पनसहितमथवा तेषां कल्पनानां मध्यभागे वाऽऽहोस्वित्स्थलभेदेन भूपालेच्छया वा निर्दिष्टे शुभस्थले पृथगेव स्थापयदिति स्थलनिर्देशकमः। अनेनैतादृशविशेषभौमपञ्चककल्पनन्तु राज्ञां प्रायशो न सन्ततवासाईम । परन्तु विवाह पट्टाभिषेकााचितसमयेषु सचिवप्रमुखैस्सामन्त भूपैश्च सहितो नृपो भवनोत्तममिमं प्रविश्य सुखवासं प्राप्नयादिति केषाश्चिन्मनम् । अन्ये तु सन्ततवासार्थमेव तेषामिति ॥ २ ॥
तस्माच्छुभसमयेषु राज्ञां विशेषतो मङ्गलकारिणीमेतादृश. भौमपञ्चककल्पननिर्मिति कथं वा कल्पयेदित्याकाङ्क्षायां सङ्ग्रहेण तन्मानादिकमाह - दक्षिणोत्तरसूत्रान्तमित्यादिना । मेरुभवनाख्यस्यास्योत्तमकल्पनस्यायामादिमानन्तु दक्षिणां दिशमारभ्य ऋजुतयैवोदीचीदिक्पर्यन्तं समसूत्रप्रसारणेन मानं यथेष्टं गृहीत्वा विषम दृष्टिहीनकल्पनं कार्यमिति लक्षणवाक्यार्थः ॥
कचिचतुरश्रप्रमाणस्थलेऽपि भवनोत्तममिदं स्थाप्यम् । किन्छ भवनस्यास्य प्रधानद्वारं प्रामुखमुत्तरमुखं वा स्थापयित्वा कल्पनमध्यभागे चतुरभमुन्नतमनेकभौमान्वितं कूटकल्पनं विधाय तत्कल्पनसमसूत्रं प्राच्यादिषु चतसष्वपि