________________
अथ विशेषभौमलक्षणकथनं नाम
एकसप्ततितमोऽध्यायः॥
तत्राद्यस्य मरुभवनस्य लक्षणम् ॥ विशेषभौमनिर्माणं कचित्कार्य शुभे स्थले । मेरुमन्दरकैलासत्रिविष्टपवनाख्यकम् ॥ १॥ एकत्र कल्पय द्वापि स्थलभेदेन वा पुनः । राज्ञां मङ्गलदायीति कीर्तितं तन्महर्षिभिः ॥ २ ॥
॥ एकसप्ततितमोऽध्यायः ॥ अथ विशेष भो मलक्षणकथनात्मकमेक सप्ततितमाध्याय मारभने -विशेष भीमनिर्माणमित्यादिना । कचिन्नगरराजधान्याद्युत्तम वास्तु भूभागे चक्रवर्तिभूपाल सामन्तक्षत्रियादीनां सुखयासार्थ कल्पनीयानां प्रासादहा द्युत्तमनिर्माणानां मध्यभागे विशेषभौमलमणमवश्यं स्थापनीयम् । एवं स्थापनमेव पार्श्वस्थकल्पनानां प्रासादानाञ्च शोभाकरम , तद्वासिनां क्षत्रियाणाञ्च क्षेमजनकमिति भावः । तस्मात्तादृशविशेष भीम कल्पनन्तु प्रसिद्धकोट्या पश्चविधं भवति । यथा- (१) मेरुभवन निर्माणम् , २. मदरभौमनिर्माणम, ३. कैलासभौमनिर्माणम, ४. त्रिविष्टपभोमनिर्माणम् , ५. वनभौमनिर्माणम् इति ॥
एवं प्रसिद्ध पश्चविध विशेषभीमकल्पनं राजप्रासादमुख्य.