________________
६७०
गिरिदुर्भसरण्यान्तु किञ्चिन्न्यून प्रमाणकम् । कल्पनं पक्तिसंयुक्तं विश्रान्तिस्थलकान्वितम् ॥ २ ॥
क्वचित्करग्रहोपेतं नुन्नसत्वं सभूरुहम् । क्वचित्सानुपुरद्वारायनमानं प्रकल्पयेत् || ३ ||
महीधरनदी जलाशयादितलप्रान्तस्थल वैशाल्यानुगुणं च स्थापनीय इति मतान्तरमानक्रमश्च वोध्यः ॥
किन दुर्गलचणप्रकरणोक्तरीत्या महीधर मौलिभागे यदि दुर्गनगरं निर्मितं तदा तादृशदुर्ग गिरिदुर्गनगरगमनार्ह मार्गवैशाल्यन्तु स्वशक्तिस्थलविभवानुगुणं योजनीयम् । अथापि सर्वथा न साधारणदण्डपकवैशाल्यहीनता कार्या । पर्वतमौलिकल्पित दुर्गनगर मार्गस्यैतादृशमार्ग वैशास्यकथने मार्गान्तरवैशाल्ययोजनक्रमस्तु न कथनीय एव । तत्र तत्र स्थलानुगुणं मानलक्षणप्रकरणप्रतिपादितरीत्या च मार्गवैशाल्यादिकं योजनीयमिति भावः कार्यज्ञैर्ज्ञेयः ॥
किन सर्व देशेषु पर्वताद्यन्नत स्थलारोहणार्थं कल्पनीयेषु सोपानमार्गेषु सोपानरहितशकटादिगमन योग्य मार्गेषु च मध्ये मध्ये गमनशीलानां विश्रान्तिस्थलकल्पनं, कचित्तादृशमार्गम्यो भयोरपि पार्श्वयोर्भृग्यादिस्थलादेरत्यगाधताद्युपेतस्थलेषु जनानामश्वादीनाश्च पार्श्वभाग पतन भयनिरासाय सौकर्यहेतवे च करग्रहास्यकट्यकरूपनं चावश्यं कार्यमित्युपदेशः ॥